________________ 72 श्री औपपातिकसूत्रम् ____ मनोविनये लिख्यते-'जे य मणे'त्ति यत्पुनर्मन:-चित्तमसंयतानामिति गम्यते, 'सावज्जे 'त्ति सहावद्येन-गर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम्, एतदेव प्रपञ्च्यते'सकिरिय'त्ति कायिक्यादिक्रियोपेतं, 'सकक्कसे 'त्ति सकार्कश्यं कर्कशभावोपेतं, 'कडुए'त्ति परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः, 'निठुरे 'त्ति निष्ठुरं-मार्दवाननुगतं, 'फरुसे'त्ति स्नेहाननुगतम्, 'अण्हयकरे 'त्ति आश्रवकरम्-अशुभकर्मा श्रवकारि, कुत इत्याह'छेयकरे 'त्ति हस्तादिच्छेदनकारि, 'भेयकरे 'त्ति नासिकादीनां भेदनकारि, 'परितावणकरे 'त्ति प्राणिनामुपतापहेतुः, 'उद्दवणकरे 'त्ति मारणान्तिकवेदनाकारि धनहरणाधुपद्रवकारि वा, 'भूओवघाइए'त्ति भूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति, ‘तहप्पगारं'. ति एवम्प्रकारम् असंयतमनःसदृशमित्यर्थः, ‘मनो नो पहारेज्ज'त्ति न प्रवर्तयेत् / से किं तं कायविणए ? कायविणए दुविहे पण्णत्ते, तं जहापसत्थकायविणए, अपसत्थकायविणए य / से किं तं अपसत्थकायविणए? अपसत्थकायविणए सत्तविहे पण्णत्ते, तं जहा-अणाउत्तं गमणे, अणाउत्तं ठाणे, अणाउत्तं निसीयणे, अणाउत्तं तुयट्टणे, अणाउत्तं उल्लंघणे, अणाउत्तं पल्लंघणे, अणाउत्तं सव्विदियकायजोगजुंजणया / से तं अपसत्थकायविणए। से किं तं पसत्थकायविणए ? पसत्थकायविणए एवं.चेव पसत्थं भाणियव्वं / से तं पसत्थकायविणए / से तं कायविणए। से किं तं लोगोवयारविणए? लोगोवयारविणए सत्तविहे पन्नत्ते तं जहाअब्भासवत्तियं, परछंदाणुवत्तियं, कज्जहेतुं, कयपडिकिरिया, अत्तगवेसणया, देसकालन्नुया, सव्वत्थेसु अपडिलोमया / से तं लोगोवयारविणए / से तं विणए // 40 // _ 'अणाउत्तं'त्ति अयतनया, 'उल्लंघणे त्ति कर्दमादीनामतिक्रमणं पौनःपुन्येन तदेव प्रलङ्घनमिति, 'सव्विंदियकायजोगजुंजणय'त्ति सर्वेन्द्रियाणां काययोगस्य च योजनताप्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति ‘अब्भासवत्तियंति अभ्यासवृत्तिता-समीपवर्तित्वं 'परच्छंदाणुवत्तियंति पराभिप्रायानुवर्तनं 'कज्जहेउं'ति कार्यहेतोः-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं, 'कयपडिकिरिय'त्ति अध्यापितोऽहमनेनेतिबुद्ध्या भक्तादिदानमिति 'अत्तगवेसणय'त्ति आर्तस्य दुःखितस्य वार्तान्वेषणं 'देसकालण्णुय'त्ति प्रस्तावज्ञताअवसरोचितार्थसम्पादनमित्यर्थः 'सव्वत्थेसु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति / / 40 // 1. स्नेहानुपगतं-B || 2. ०करणेत्ति-खं. // 3. B खं. / असावधानतया-मु. // 4. B खं. / योजनं प्र० मु.॥