________________ श्री औपपातिकसूत्रम् 38- से किं तं अभितरए तवे ? अब्भितरए तवे छव्विहे पण्णत्ते, तं जहा-पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं विउस्सग्गो / ___ [38] 'पायच्छित्तं 'ति अतिचारविशुद्धिः, सा च वन्दनादिना विनयेन विधीयत इत्यत आह-'विणओ'त्ति कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्ये वर्तत इत्यत आह'वेयावच्चं 'ति भक्तादिभिरुपष्टम्भः, वैयावृत्यान्तराले च स्वाध्यायो विधेय इत्यत आह'सज्झाओ'त्ति शोभनो मर्यादया पाठ इत्यर्थः, तत्र च ध्यानं भवतीत्याह-'झाणं 'ति, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-'विउस्सग्गे'त्ति, // 38 // ___ 39- से किं तं पायच्छित्ते ? पायच्छित्ते दसविहे पण्णत्ते, तं जहाआलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउस्सग्गारिहे, तवारिहे, छेदारिहे, मूलारिहे, अणवठ्ठप्पारिहे, पारंचियारिहे / से तं पायच्छित्ते। [39] 'आलोयणारिहे'त्ति आलोचनां-गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनाह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनार्हमित्युक्तं, तस्या एव तपोरूपत्वादिति, एवमन्यान्यपि, नवरं 'पडिक्कमणारिहे'त्ति मिथ्यादुष्कृतं, 'तदुभयारिहे'त्ति आलोचना-प्रतिक्रमणस्वभावं, 'विवेगारिहे'त्ति अशुद्धभक्तादिविवेचनं, विउस्सग्गारिहे'त्ति कायोत्सर्गः, 'तवारिहे'त्ति निर्विकृतादिकं तपः, 'छेदारिहे'त्ति दिनपञ्चकादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहे'त्ति पुनर्वतोपस्थापनम्, 'अनवटुप्पारिहे'त्ति अचरिततपोविशेषस्य व्रतेष्वनवस्थापनं, 'पारंचियारिहे'त्ति तपोविशेषेणैवातिचारपारगमनमिति // 39 // 40- से किं तं विणए ? विणए सत्तविहे पण्णते, तं जहा-नाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वइविणए, कायविणए, लोगोवयारविणए। से किं तं नाणविणए ? नाणविणए पंचविहे पण्णत्ते, तं जहाआभिणिबोहियनाणविणए, सुयनाणविणए ओहिनाणविणए, मणपज्जवनाणविणए, केवलनाणविणए / से तं नाणविणए / 1. वैयापृत्ये - खं. // 2. विउस० खं. //