________________ 412 शोभनस्तुति-वृत्तिमाला प्रमोदस्थानस्य / सेति भारत्या विशेषणम् / पुनः किंविशिष्टस्य ? / 'अमानिनः' निरभिभूयिष्ठा (?) अतन्वतीतापत् ! इति / अतनवः-महत्यः अतीता-अतिक्रान्ता आपदो येन स तस्यामन्त्रणम् / हे हित ! (कल्याण)कारिन् ! / कस्मै ? / 'मतिमते' मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते, हितेति समग्रमेव वा जिनामन्त्रणम् / / इति तृतीयदण्डकार्थः / / 95 / / ध० टीका-परमतेति / ‘परमततिमिरोग्रभानुप्रभा' परमतान्येव तिमिरं तस्य ध्वंसहेतुत्वात् उग्रभानोः-तिग्मांशोः प्रभा या / 'भूरिभङ्गैर्गभीरा' भूरिभिः-प्रचुरैर्भङ्गैः-अर्थविकल्पैर्गभीरा / 'भृशं' अत्यर्थम् / 'विश्ववर्ये' विश्वस्मिन्-जगति वर्यं-प्रधानं यत् तस्मिन् / 'निकाय्ये' निवासे / मोक्षे इत्यर्थः / 'वितीर्यात्तराम्' अतिशयेन वितरतु / ‘अहतिमति' अविद्यमानहनने / 'मते' शासने आधारभूते / यद् वा अहतिं-अविद्यमानविघातम्, एतद् वासस्य विशेषणम् / ‘अतिमते' अतिशयेन अभिप्रेते / 'हि' स्फुटम् / 'ते' तव / ‘शस्यमानस्य' स्तूयमानस्य / 'वासं' आश्रयम् / 'सदा' नित्यम् / ‘अतन्वतीतापत्' अतन्व्यः अतीता आपदो यस्य तस्यामन्त्रणम् / 'आनन्दधानस्य' प्रमोदस्थानस्य / 'सा' इत्थंभूता / 'अमानिनः' निरहङ्कारस्य, अथवा सामानिनः सहामानिभिः-दर्परहितैर्वर्तते यस्तस्य / 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' जननानि मृतयश्च ता एव तरङ्गा यस्य स जननमृतितरङ्गः स चासौ निष्पारसंसारनीराकरश्च-तीररहितभवार्णवश्च तस्यान्तर्निमज्जतां जनानां उत्तारनौ-द्रोणीभूता / 'भारती' वाक् / 'तीर्थकृत् !' / 'महति' विस्तीर्णे / ‘मतिमते' मनीषिणे / 'हित !' प्रियकारिन् / अथवा मतिमता-प्रज्ञावता ईहिता-समीहिता / 'ईशस्य' स्वामिनः / 'मानस्य वा' पूजाया इव / 'संसत्' सभा / वाशब्द इवार्थे भिन्नक्रमस्तेन मानस्य संसदिवेति सम्बन्धनीया / ‘आतन्वती' विस्तारयन्ती / 'तापदानं' सन्तापखण्डनम् / 'दधानस्य' पुष्णतः / 'सामानि' प्रियाणि / 'नः' अस्मभ्यम् / हे तीर्थकृत् ! ईशस्य ते मते भारती विश्ववर्य निकाय्ये नो वासं वितीर्यात्तरामिति योगः / / 95 / / अवचूरिः हे तीर्थकृत् ! ते-तव मते-शासने भारती विश्ववर्य-निकाय्ये वासमाश्रयं मोक्षमित्यर्थः वितीर्यात्तरामति संबन्धः / भारती कथंभूता ? | परशासनध्वान्तसूर्यसमा / भूरिभङ्गैः-अर्थविकल्पैर्गभीरा / निकाय्ये कथंभूते ? / अहतिमति-अविद्यमानहनने / मते-शासने आधारभूते / यद्वा अहतिअविद्यमानघातम् / एतद् वासस्य विशेषणम् / अतिमते-अतिशयेनाभिप्रेते / हि-स्फुटम् / ते-तव / शस्यमानस्य-स्तूयमानस्य / सदा-नित्यम् / अतनवो-बहुतरा अतीता आपदो यस्य तस्यामन्त्रणं