SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीवीरजिनस्तुतयः 411 येषां ते अमानिनः-साधवः, अमानिभिः सहितः सामानी, तस्य सामानिनः / जननानि च मृतयश्च जननमृतयः, जननमृतय एव तरङ्गा यस्मिन् स जननमृतितरङ्गः, पारान्निर्गत इति निष्पारः, संसरणं संसारः, नीराणां आकरः नीराकरः, संसार एव नीराकरः संसारनीराकरः, निष्पारश्चासौ संसारनीराकरश्च निष्पारसंसारनीराकरः, (जननमृतितरङ्गश्चासौ निष्पारसंसारनीराकरश्च) जननमृतितरङ्गनिष्पारसंसारनीराकरः, जननमृतितरङ्गनिष्पारसंसारनीराकरस्य अन्तः जननमृतितरङ्गनिष्पारसंसारनीराकरान्तः, जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जन्तः (जनन०), जननमृतितरङ्गनिष्पारसंसारनीराकरान्तनिमज्जन्तश्च ते जनाश्च जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनाः, जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनानां उत्तारः जनन०निमज्जज्जनोत्तारः, जननमृतितरङ्गनिमज्जज्जनोत्तारे नौरिव नौः जननमृतितरङ्गनिप्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः / तीर्थं करोतीति तीर्थकृत्, तस्य सं० हे तीर्थकृत् ! / मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते / तापस्य दानं तापदानं, तत् तापदानम् / इति तृतीयवृत्तार्थः / / 95 / / (4) - दे० व्या०-फरमतेति / हे तीर्थकृत् ! तीर्थं-चतुर्विधः सङ्घः प्रथमगणधरो वेति बोध्यम् / ते-तव भारती-वाणी निकाय्ये-गृहे अर्थात् मोक्षे वासं-निवासं वितीर्यात्(तरां) (अतिशयेन) दद्याद् इत्यन्वयः / 'तृ प्लवनतरणयोः' धातुः / 'वितीर्यात्(तरां)' इति क्रियापदम् / का की ? / भारती / कस्य ? / तेतव / किं कर्मतापन्नम् ? / वासम् / कस्मिन् ? / निकाय्ये / “निकाय्यो भवनं कुटः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 56) / किंविशिष्टे निकाय्ये ? / 'विश्ववर्य' विश्वस्मिन् वर्ये-समीचीने / पुनः किंविशिष्टे ? / अहतिमति-अविद्यमानहनने / पुनः किंविशिष्टे ? / 'अतिमते' अतिशयेन मते-वाञ्छिते / हि स्फुटम् / पुनः किंविशिष्टे ? / महति-विस्तीर्णे / किंविशिष्टा भारती ? / 'परमततिमिरोग्रभानुप्रभा' परमतमेव तिमिरं-अन्धकारं तस्मिन् उग्रभानोः-सूर्यस्य प्रभा इव प्रभा-कान्तिः / पुनः किंविशिष्टा ? / गभीरा-अलब्धमध्या / कैः ? / भूरिभङ्गैः / भूरयो-भूयिष्ठा ये भङ्गा-विकल्पाः तैः / कथम् ? / भृशम्अत्यर्थं यथा स्यात् तथा / पुनः किंविशिष्टा ? / 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' जननं च मृतिश्चेति 'द्वन्द्वः' / त एव तरङ्गाः-कल्लोला यस्य स चासौ निष्पारः-अलब्धप्रान्तो यः संसारनीराकरः संसार एव समुद्रः तस्यान्तर-मध्ये निमज्जन्तो-बुडन्तो ये जना-लोकाः तेषां उत्तारेतीरप्रापणे नौरिव नौः-द्रोणी / पुनः किंविशिष्टा ? / 'मानस्य वा संसत्' मानस्य-पूजायाः संसदिव-सभेव। अत्र वाशब्द: इवार्थे भिन्नक्रमश्च / पुनः किंविशिष्टा ? / आतन्वती-विस्तारयन्ती / किम् ? / तापदानंसन्तापखण्डनम् (दो अवखण्डने) / किंविशिष्टस्य ? / ते-तव ईशस्य-स्वामिनः / पुनः किंविशिष्टस्य ? | शस्यमानस्य-स्तूयमानस्य / कथम् ? / सदा-निरन्तरम् / किंविशिष्टस्य ? / आनन्दधानस्य
SR No.004430
Book TitleShobhan Stuti Vruttimala Part 02
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy