________________ श्रीवीरजिनस्तुतयः 397 कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? / निर्वृतिशर्माणि-मुक्तिसुखानि / निर्वृतेः शर्माणि निर्वृतिशर्माणि इति विग्रहः / “निर्वाणं ब्रह्म निर्वृतिः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 74) / किंविशिष्टो भवान् ? / 'क्षितामः' क्षितः-क्षपितः आमो-रोगो यस्य स तथा / पुनः किंविशिष्ट: ? / 'अक्षोभवान्' नास्ति क्षोभो यस्यासौ तथा / पुनः किंविशिष्टः ? / 'जातावतारः' जातो-गृहीतः अवतारो येन स तथा / कस्मिन् ? | ‘धराधीशसिद्धार्थधाम्नि' धरायाः-पृथिव्या अधीशः-स्वामी यः सिद्धार्थःसिद्धार्थनामा राजा तस्य धाम्नि-गृहे / किंविशिष्टे धाम्नि ? / 'क्षमालङ्कृती' क्षमायाः-पृथिव्याः अलङ्कृतौ-अलङ्कारभूते / पुनः किंविशिष्टे ? / 'लीलापदे' लीलाया-विलासस्य पदे-स्थाने / 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे !' इति / नमन्तः-प्रणमन्तो ये अमरा-देवाः तेषां शिरोरुहाः-केशाः तेभ्यः स्रस्ताः-पतिताः याः सामोदनिर्निद्रमन्दारमालाः-सुगन्धिविकसितकल्पवृक्षस्रजः, निर्निद्राश्च ता मन्दारमालाश्चेति पूर्वं समासः, ततः सामोदाश्च ता निर्निद्रमन्दारमालाश्चेति पूर्वपदान्वितः 'कर्मधारयः', तासां रजसा-परागेण रञ्जितौ-पञ्जरितौ अंही-चरणौ यस्य स तस्यामन्त्रणम् / ‘धरित्रीकृतावन' ! (इति) / धरित्र्याः-पृथिव्याः कृतं अवनं-रक्षणं येन स तस्यामन्त्रणम् / 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्ष !' इति / अतिशयेन वराः वरतमाः सङ्गम[क] स्यसङ्गमनाम्नो देवस्य सम्बन्धिनी उदारा-स्फारा तारा-मनोहरा सा चासौ उदितानङ्गा या नार्यावली उदितःउदयं प्राप्तः अनङ्ग:-कन्दर्पः यस्यां सा चासौ नारीणां आवली-पङ्क्तिः तस्याः [आ]लापेन-संभाषणेन, “आपृच्छा-ऽऽलापः संभाषः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 189), देहेन-शरीरेण ईक्षितेनविलोकितेन न मोहितानि न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तस्यामन्त्रणम् / “विभीतकोऽक्षोऽक्षमिन्द्रियम्” इत्यनेकार्थः / ‘असङ्गमोद !' इति / नास्ति सङ्गमात्-संसारबन्धात् मोदः-प्रमोदो यस्य स तस्यामन्त्रणम् / अरत !' इति / नास्ति रतं-मैथुनाभिलाषो यस्य स तस्यामन्त्रणम् / अनङ्गन !' इति / नास्ति अङ्गना-वल्लभा यस्य स तस्यामन्त्रणम् / 'आर्याव' ! इति / आर्यान्-प्रशस्यान् अवतिरक्षतीत्यार्यावः तस्यामन्त्रणम् / हे हित ! हितकारिन् / 'दधातेर्हिः' (सा० सू० 1305) इत्यनेन हिरादेशः / एतानि सर्वाणि भगवत आमन्त्रणपदानि / / इति प्रथमवृत्तार्थः / / 93 // ध० टीका-नमदिति / ‘नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे !' नमतां अमराणां शिरोरुहेभ्यः-केशेभ्यः स्रस्ताः सामोदा निर्निद्राणां-विकसितानां मन्दाराणां या मालाः-सजस्तासां रजसा रञ्जिताहे-पाटलितचरण ! / 'धरित्रीकृतावन ! धरित्र्याः-भुवः कृतावन-विहितरक्ष ! / 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' वरतमा-प्रधानतमा सङ्गमस्य-सङ्गमकनाम्नो