________________ २annaamaaaaaaaaaaaaanामना तिमाला सामोदानिर्निद्रमन्दारमालारजोरञ्जितांहे ! / धरित्र्यां-धरित्रीस्थितानां जन्तूनां कृतं अवनं-रक्षणं येन स धरित्रीकृतावनः, तस्य सं० हे धरित्रीकृतावन ! अत्र धरित्रीशब्देन जगद् गृह्यते / “धरित्री धरिणी [धरणी] विश्वं, लोकः क्षेमेषु शाश्वतं” इति व्याडिः / वरतमश्चासौ सङ्गमश्च वरतमसङ्गमः, यद्वा वरः-प्रधानः वैमानिकत्वात् तेषु तम इव तमः तीर्थंकरोपसर्गकारित्वेन वरतमसङ्गमः, ताराश्च उदितानि च अनङ्गश्च तारोदितानङ्गाः, (उदाराश्च तारोदितानङ्गाश्च उदारतारोदितानङ्गाः), [वरतमसङ्गमस्य उदारतारोदितानङ्गाः], उदारतारोदितानङ्गा यासां ता उदारतारोदितानङ्गाः, उदारतारोदितानङ्गाश्च ता नार्यश्च उदारतारोदितानङ्गनार्यः, वरतमसङ्गमस्य उदारतारोदितानङ्गनार्यः वरतमसङ्गमोदारतारोदितानङ्गनार्यः, वरतमसङ्गमोदारतारोदितानङ्गनारीणामावली वरतमसङ्गमोदारतारोदितानङ्गनार्यावली, लापाश्च-आलापाश्च देहाः-शरीराणि ईक्षितानि-विलोकितानि च लापदेहेक्षितानि, वरतमसङ्गमोदारतारोदितानङ्गनार्यावल्याः लापदेहेक्षितानि वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहक्षितानि, न मोहितानि अमोहितानि, अमोहितानि च अक्षाणि च अमोहिताक्षाणि, वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितैः अमोहिताक्षाणि यस्य स वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः, यद्वा अतिशयेन वराः वरतमाः-प्रधानाः सङ्गमा-लीलविलासालिङ्गनादयः यासां तास्तादृश्यो नार्यः-स्त्रियः इत्यपि समासोऽस्ति अर्थोऽप्यस्ति / निर्वाणस्य शर्माणि (निर्वाणशर्माणि), तानि निर्वाणशर्माणि / जातः अवतारो यस्य स जातावतारः / धराया अधीशः धराधीशः, धराधीशश्चासौ सिद्धार्थश्च धराधीशसिद्धार्थः, धराधीशसिद्धार्थस्य धाम (धराधीशसिद्धार्थधाम), तस्मिन् धराधीशसिद्धार्थधाम्नि / क्षमायाः अलङ्कृतिरिव अलङ्कृतिः क्षमालङ्कृतिः, तस्यां क्षमालङ्कृतौ / सङ्गश्च मोदश्च सङ्गमोदी, यद्वा सङ्गमात्इष्टप्राप्तेः मोदः सङ्गमोदः, (न विद्येते सङ्गमोदौ) न विद्यते सङ्गमोदो (वा) यस्य सः असङ्गमोदः, तस्य सं० हे असङ्गमोद ! / यद्वा न विद्यते सङ्गो यस्य स असङ्गः, तस्य सं० हे असङ्ग ! [ “सास्तु हर्षे विधौ मासे” इत्यनेकार्थवचनात् मासं-हर्षं ददातीति मोदः(?), तस्य सं० हे मोद ! इत्यपि व्याख्यानम् / न रतः अरतः, तस्य सं० हे अरत ! / नास्ति रोदितं यस्य सः अरोदितः, तस्य सं० हे अरोदित !, गतशोक इत्यर्थः / नास्ति अङ्गना यस्य सः अनङ्गनः, तस्य सं० हे अनङ्गन ! / आर्यान्-आर्यलोकान् अवति-रक्षति यः स आर्यावः, तस्य सं० हे आर्याव ! / लीलायाः पदं लीलापदं, तस्मिन् लीलापदे / हे इति सम्बोधनपदं आभिमुख्याभिव्यक्तये सर्वत्र योज्यम् / क्षिता-गता आमा-रोगा यस्मात् स क्षितामः / हे हित ! हे हितकारिन् ! / क्षोभोऽस्यास्तीति क्षोभवान्, न क्षोभवान् अक्षोभवान् / चण्डवृष्टिप्रयातादिदण्डकः / इति प्रथमवृत्तार्थः / / 93 // दे० व्या०-नमदमरेति / हे वीर !-वर्धमान ! भवान्-त्वं मम निर्वाणशर्माणि अनवरतं-निरन्तरं यथा स्यात् तथा वितरतु-ददातु इत्यन्वयः / तृप्लवनतरणयोः' इति धातुः / 'वितरतु' इति क्रियापदम् /