________________ 344 शोभनस्तुति-वृत्तिमाला दे० व्या०-जलव्यालेति / कृतान्तः-सिद्धान्तः असुमतः-प्राणिनः त्रासीष्ट-रक्षतादित्यन्वयः / 'त्रासीष्ट' इति क्रियापदम् / कः कर्ता ? / कृतान्तः / कान् कर्मतापन्नान् ? / असुमतः / कस्मात् ? / 'जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः' जलं-समुद्रादि, व्यालः-सर्पः, व्याघः-सिंहः, ज्वलनो-वह्निः, गजो-मत्तमातङ्गः, रुक-रोगः, बन्धनं-काराक्षेपः, युत्-संग्रामः एतेषां 'द्वन्द्वः' तस्मात् / किंविशिष्टः कृतान्तः ? | वाहः-तुरङ्गमः / अत्राभेदरुपकालङ्कारः / “वाहो वाजी हयो हरिः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 299) / पुनः किंविशिष्ट: ? / गुरुः-हिताहितप्राप्तिपरिहारोपदेष्टा / पुनः किंविशिष्टः ? / 'अपातापदघनगरीयानसुमतः' न विद्यते पातश्च आपच्च अघं च यस्याः सा अपातापदघा, एवंविधा या नगरी अर्थान्मुक्तिः तस्या याने-गमने सुमतः-सुतरामभिप्रेतः / वाहस्य विशेषणं वा / पुनः किंविशिष्टः ? / 'स्फुटविकटहेतुप्रमितिभाक्' स्फुटाः-स्पष्टाः शब्दतः विकटा-दुर्गमाः अर्थतः ते च ते हेतवः-साध्यगमकास्तेषां प्रमितिः-यथार्थज्ञानं(तां)भजतीति भाक्, क्विप्प्रत्ययान्तम् / पुनः किंविशिष्टः ? / उरुः-विशालः / वा वैकल्पिकः / पुनः किंविशिष्टः ? / 'पाता' पातीति पाता-रक्षकः, दुर्गतिपतत्प्राणिरक्षकत्वात् / पुनः किंविशिष्ट: ? / ‘पदघनगरीयान्' पदानि-वर्णसमूहाः सुप्तिङन्तानि वा तैर्घनो (-निबिडः) निवहः अत एव गरीयान्-गरिष्ठः / / इति तृतीयवृत्तार्थः / / 83 / / ध० टीका-जलेति / 'जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः' व्यालः-पन्नगः, रुक-रोगः जलोदरादिः, बन्धनं-कारादिनिरोधः, युत्-संग्रामः, जलादेरुपसर्गात् सकाशात् / 'गुरुः' महान् / 'वाहः' अश्वः / 'अपातापदघनगरीयानसुमतः' पातः-च्यवनं, न विद्यन्ते पातश्च आपच्च अघं च यस्याः सा अपातापदघा, सा चासौ नगरी च अपातापदघनगरी, युक्त्या मुक्तिरेव, तस्यां यानं-गमनं तत्र सुमतःसुष्ठु सम्मतः / 'कृतान्तः' राद्धान्तः / 'त्रासीष्ट' रक्ष्यात् / ‘स्फुटविकटहेतुप्रमितिभाक' प्रमितयःप्रमाणानि, हेतूच प्रमितीश्च हेतुप्रमितीः, स्फुटा-अविसंवादिनीः विकटा-अक्लिष्टा हेतुप्रमितीर्भजते यः सः / 'उरुः' विशालः / 'वा' शब्दश्चकारार्थे / 'अहो' इत्यामन्त्रणे / 'पाता' त्रायकः / ‘पदघनगरीयान्' घनः-अर्थनिबिड: गरीयान्-महत्त्वातिरेकयुक्तः पदेषु-वाक्यावयवेषु घनश्च गरीयांश्च / 'असुमतः' प्राणिनः / अहो कृतान्तो जलादेरसुमतः त्रासीष्टेति सम्बन्धः / / 83 / / (6) __ अवचूरिः कृतान्तः-सिद्धान्तोऽसुमतः-प्राणिनस्त्रासीष्ट-रक्षतात् / कस्मात् ? / जलव्यालव्याघ्रज्वलनगजरुग्बन्धयुधः / व्यालः-सर्पः / रुजो-जलोदरादिरोगाः / बन्धनं-कारानिरोधादि / युत-सङ्ग्रामः /