________________ श्रीशीतलजिनस्तुतयः 163 करो यया सा कृतकरा / अस्त्राणां मध्ये वरं-प्रधानं वज्रं-अस्त्रवरं, तस्मिन् अस्त्रवरे। फलानि च पत्राणि च फलपत्राणि, फलपत्राणि भजतीति फलपत्रभाक् / उरुश्चासौ तरुश्च उरुतरुः / फलपत्रभाक् चासौ उरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ; यद्वा फलपत्रैर्भातीति फलपत्रभः, ताक् चासौ अगुरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ / कृतकरास्त्रवरे कृतं करे अस्त्रवरं यया सा कृतकरास्त्रवरा, तस्याः सं० हे कृतकरास्त्रवरे ! यद्वा अस्त्रवरे इति तरुविशेषणं तस्याः शक्तिरूपत्वात् / वृक्षानपि अस्त्ररूपान् करोतीति भावः / अतिशयेन गुर्वी गुरुतरा इति देव्या विशेषणे समासः / / इति तुरीयवृत्तार्थः / / 40 / / श्रीशीतलजिनेन्द्रस्य, स्तुतेरों निरूपितः / सौभाग्यसागराख्येन, सूरिणा सौख्यकारिणा / / // इति शीतलजिनस्तुतिः // 4 / 10 / 40 // दे० व्या०-घनरुचिरिति / इह भुवि-पृथिव्यां मानवी देवी जयतात्-सर्वोत्कर्षेण वर्ततादितिसम्वन्धः' / 'जि जये' धातुः / जयतात्' इति क्रियापदम् / का की ? | मानवी / किंविशिष्टा मानवी ? / 'घनरुचिः / घना-सान्द्रा रुचिः-कान्तिः यस्याः सा तथा / पुनः किंविशिष्टा ? / 'गुरुतराविहतामरसङ्गता' अतिशयेन गुरवो गुरुतराः ते च ते अविहता-अपरिक्षता ये देवास्तैः सङ्गता-सहिता / पुनः किंविशिष्टा ? / गता-उपविष्टा / किम् ? | तामरसं-कमलम् / कुत्र ? | ‘फलपत्रभागुरुतरौ' फलं च पत्रं च भजते इति फलपत्रभाक् स चासौ उरुः-विशालो यः तरुः-वृक्षः तस्मिन् / सामीप्ये सप्तमीयम् / पुनः किंविशिष्टा ? / कृतकरा-विक्षिप्तहस्ता / कृतः करो ययेति विग्रहः / कस्मिन् ? / 'अस्त्रवरे' अस्त्रेषु वरं अस्त्रवरं तस्मिन् / प्रधानशस्त्रे इत्यर्थः / अन्ये तु किंविशिष्टा देवी ? कृतकरा / कस्मिन् ? फलपत्रभागुरुतरौ / किंविशिष्टे तरौ ? / अस्त्रवरे / इति व्याख्यानमाहुः / इति चतुर्थवृत्तार्थः / द्रुतविलम्बितच्छन्दः / / “द्रुतविलम्वितमाह नभौ भरौ” इति तल्लक्षणम् // 4 / 10 / 40 // ध० टीका-घनेति / 'घनरुचिः' घनच्छाया श्यामेत्यर्थः / 'जयतात्' जयतु / 'भुवि' क्षितौ / मानवीतिनाम्ना / 'गुरुतराविहतामरसंगता' गुरुतरा-अतिमहान्तो अविहता-अपरिक्षता ये अमरास्तैः संगता-समेता / ‘कृतकरा' स्थापितपाणिः / 'अस्त्रवरे' प्रवरायुधे / तरोविशेषणमेतत् / ‘फलपत्रभागुरुतरौ' फलानि पत्राणि च भजते यः उरुतरुः-विशालवृक्षः तत्र / ‘इह' अत्र | 'तामरसं गता' सरोजमास्थिता / / 4 / 10 / 40 //