________________ 162 शोभनस्तुति-वृत्तिमाला सर्वोत्कर्षेण वर्ततामित्यर्थः / 'जि जये' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), ‘ए अय्' (सा० सू० 41) तुपस्तातङादेशः / ‘स्वरहीनं०' (सा० सू० 36) / तथा च 'जयतात्' इति सिद्धम् / अत्र 'जयतात्' इति क्रियापदम् / का की ? / मानवी / कस्याम् ? / भुवि / कथंभूता मानवी? / 'घनरुचिः' घनोमेघः तद्वद् रुचिः-कान्तिः यस्याः सा तथा, श्यामेत्यर्थः / पुनः कथंभूता ? / 'गुरुतराविहतामरसङ्गता' अतिशयेन गुरवो गुरुतराः-महान्तः ते च ते अविहताः-केनाप्यपरिक्षता ये देवाः तैः सङ्गता-सहिता / गुरुतराश्च ते अविहताश्चेति कर्मधारयः' / पुनः कथंभूता? / 'कृतकरा' कृतः-स्थापितः करो-हस्तो यया सा तथा / कस्मिन् ? / 'फलपत्रभागुरुतरौ' फलानि पत्राणि भजते इति फलपत्रभाक् स चासौ उरुःविशालो यः तरुः-वृक्षस्तस्मिन् फलपत्रभागुरुतरौ / कथंभूते ? / अस्त्रवरे-प्रवरायुधे / एतेन मानव्या देव्या वृक्षरूपमायुधमस्तीति सूचितम् / पुनः कथंभूता मानवी ? / गता-प्राप्ता समासीनेत्यर्थः / किम् ? / तामरसं-कमलम् / द्रुतविलम्बितच्छन्दः / “द्रुतविलम्बितमाह नभौ भरौ” इति तल्लक्षणम् / / 40 / / महामहोपाध्यायश्रीभानुचन्द्र० श्रीशीतलतीर्थकृतःस्तुतिवृत्तिः // 4 / 10 / 40 // . (3) सौ० वृ०-घनरुचिरिति / मानवीनाम्नी देवी जयतात् इत्यन्वयः / 'जयतात्' इति क्रियापदम् / का की ? / 'मानवी' / 'जयतात्' जयं प्राप्नुतात् / कस्याम् ? / 'भुवि' / किंविशिष्टा मानवी ? / 'घनरुचिः' सान्द्रकान्तिः, मेघश्यामा वा / पुनः किंवि० मानवी ? / गुरुतरा-महान्तोऽविहता-न केनापि पराजितास्तादृशा ये अमरा-देवाः तैः सङ्गता-परिवृता-मिलिता ‘गुरुतराविहतामरसङ्गता' / पुनः किंवि० मानवी ? / 'कृतकरा' स्थापितहस्ता | कस्मिन् ? / 'अस्त्रवरे' शस्त्रप्रधाने / पुनः किंवि० मानवी ? | 'गता' प्राप्ता / किं कर्मतापन्नम् / 'तामरसं' कमलम् / क्व ? / 'इह' / कस्मिन् ? / फलानि (पत्राणि च) भजतीति फल(पत्र)भाक, [तादृशो अगुरुतरुः-अगुरुवृक्षः तथा] उरुतरुः-विशालवृक्षो वा तस्मिन् 'फलपत्रभागुरुतरौ' / 'गुरुतरा' महती / पुनः किंविशिष्टा मानवी ? / 'अविहता' अपराजिता / पुनः किंवि० मानवी ? / 'अमरसङ्गमा' (ता) देवमिलिता / त्रीण्यपि विशेषणानि प्रथमान्तानि देव्या एव / इति पदार्थः / / अथ समासः-घनवद् रुचिः घनरुचिः वा घना सान्द्रा रुचिः यस्याः सा घनरुचिः / अतिशयेन गुरवः इति गुरुतराः, न विहता अविहताः, गुरुतराश्च ते अविहताश्च गुरुतराविहताः, गुरुतराविहताश्च ते अमराश्च गुरुतराविहतामराः, गुरुतराविहतामरैः संगता गुरुतराविहतामरसंगता / कृतः-स्थापितः अतः परः पाठः प्रामादिकः प्रतिभाति /