________________ [1] नवतत्व वृ. सिद्धास्ते संख्यातगुणा ज्ञेयाः 3 / इत्यल्पबहुत्वद्वारं समाप्तं नवमं 9 / इत्यनेन ग्रन्थेन नवापि मोक्षतत्वस्य भेदा व्याख्याता इति मोक्षतत्वं ज्ञेयं 9 / मोक्षतत्वभणनेन च नवतत्वानि लेशतो भणितानि / / 44 // अथ नवतत्वानां परिज्ञाने फलमाहजीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं ! भावेण सदहंतो अयाणमाणेवि सम्मत्तं // 45 // ___ जीवादिनवपदार्थान् यो जानाति श्रद्धधाति च तस्य सम्यक्त्वं भवत्यथ च भावेन 'तमेव सच्चं नीसंकं जं जिणेहिं पवेईयं' इत्यादिरूपेण श्रद्दधानोऽपि कोऽर्थः 1 श्रद्धानं कुर्वति जीवादि नवपदार्थान् अर्थादिकथनेनाजानन्नपिजीवादिनवपदार्थज्ञानरहितेऽपि जीवे सम्यक्त्वं भवति // 45 // अथ सम्यक्स्वस्य निश्चलतामाहसब्वाइं जिणेसरभासिआइं वयणाइं नन्नहा हुंति / इय बुद्धि जस्स मणे सम्मत्तं निचलं तस्स // 46 // .. ' इति बुद्धिर्यस्य मनसि भवति तस्य सम्यक्त्वं निश्चलं ज्ञेयमिति किं ? सर्वाणि वचनानि जिनेश्वरभाषितानि तीर्थकरदेवकथितानि नान्यथा भवन्ति किन्तु सत्यान्ये वेति / / 46 / / अथ सम्यक्त्वस्पर्शने लाभमाह-- अन्तोमुहुत्तमित्तं पि फासिअं हुज जेहिं सम्मत्तं / तेसिं अवड्ढपुगलपरिअट्टो चेव संसारो // 47 //