________________ प्रकरणत्रयी _ [10] अनन्त:-अन्तररहितः सर्वसिद्धानामाश्रित्यानादिरनन्तश्चेति कालद्वारं पञ्चमं 5 / ___ अथ षष्ठमन्तरद्वारमाह--प्रतिपातस्याभावात् सिद्धानामन्तरं नास्ति, यतोऽन्तरं तदुच्यते यत तं भावं प्राप्य पुनरन्यत्र गत्वाऽऽगत्य तमेव भावं प्राप्नोत्येवंविधं सिद्धानामन्तरं नास्तीति षष्ठमन्तरद्वारम् / / 42 // ___ अथ भागद्वारं-भावद्वारं च गाथयाऽऽह-- सव्वजियाणमणंते भागे ते तेसु दंसणनाणं / खइए भावे परिणामिए अ पुण होइ जीवत्तं // 43 // तत्र भागद्वारमाह-सर्वजीवानामनन्ततमे भागे सर्वेऽपि सिद्धा वर्तन्ते, भागद्वारं सप्तमं / . ___ अथ भावद्वारमाह-तेषां सिद्धानां तेषु सिद्धेषु वा केवलज्ञानं केवलदर्शनं च क्षायिक भावे वर्तने, पुनः क्षयाभावेन शाश्वतत्वात् च पुनः तेषां सिद्धानां जीवत्वं पारिणामिके भावे वर्तते इति भावद्वारं 8 // 43 // __ अथाल्पबहुत्वद्वारं गाथयाऽऽहथोवा नपुंससिद्धा थीनरसिद्धा कमेण संखगुणा / इय मुक्खतत्तमेअं नवतत्ता लेसओ भणिया // 44 // मोक्षगमनभवे ये नपुंसकत्वमनुभूय सिद्धास्ते स्तोकाः / ननु जन्मनपुंसकानां चारित्रमपि न भवति कुतो मोक्षगमन ? उच्यते-एते जन्मनपुंसका न किन्तु ये पश्चाद्वद्धितादिकरणेन कृतास्ते ज्ञेयाः 1 तेभ्यो नपुंसकेभ्यो ये स्त्रीवेदमनुभूय सिद्धास्ते संख्यातगुणा ज्ञेयाः 2 तेभ्यः खीषेदसिद्धेभ्यो ये पुरुषवेदमनुभूय