________________ प्रकरणत्रयी [56] सत्पदप्ररूपणा 1 द्रव्यप्रमाणं 2 क्षेत्रप्रमाणं 3 स्पर्शना 4 काल: 5 अन्तरं 6 भागः 7 भाव 8 अल्पबहुत्वं च // 39 // अथ प्रथमभदस्य सत्पदप्ररूपणारूपस्य स्वरूपं प्ररूपयतिसंतं सुद्धपयत्ता विज्जंतं खकुसुमव्व न असंतं / मुक्खत्ति पयं तस उ परूवणा मग्गणाईहिं // 40 // / ___ मोक्ष इति पदं सत् विद्यमानं कस्मात् शुद्धपदत्वादसंयुक्तपदत्वादेकपदत्वादित्यर्थः, आकाशकुसुमवत् असंत-अविद्यमानं न / अयम्भावःसमस्तलोके यस्य यस्य पदार्थस्यैकपदं नाम भवति स पदार्थोऽस्त्येव यथा घटपटलकुटादिरेवं मोक्षस्यापि मोक्ष इत्येकपदं नामातः कारणात् मोक्षोऽस्त्येव न पुनराकाशकुसुमवन्नास्ति यत आकाशकुसुमस्यैकपदनाम नास्ति किन्तु द्विपदं नामाऽस्ति / यद्यद् वस्तु द्विपंदनामवाच्यं भवति तत्तदेकान्तेन विद्यमानं न भवति किन्तु किश्चिद् गोश्रृंगमहिषश्रृंगादिवत् विद्यमानमस्ति किंचित् पुनः खरश्रृंगतुरंगमश्रंगाकाशकुसुमादिवदविद्यमानं ततो मोक्ष इति पदमेकपदत्वादस्त्येवेत्यनुमानप्रमाणेन मोक्षसत्ता स्थापिता // 39 // अथ तस्य मोक्षस्य सत्पदरूपस्य गत्यादिमार्गणाद्वारेण प्ररूपणा क्रियते, तथाहिनरगइपणिदितमभव सन्नि अहक्खाय खइअ सम्मत्ते / मुक्खोऽणाहारकेवल दंसणनाणे न सेसेसु // 40 // - गतिश्चतुर्धा-मनुष्यगतिः 1 तिर्यग्गतिः 2 देवगतिः 3 नरकगतिश्च 4 तत्र मनुष्यगतावेव जीवानां मोक्षो भवति न शेषगतित्रये 1 / इन्द्रियमार्गणायां जीवाः पञ्चषा सन्ति-एकेन्द्रियाः 1 द्वीन्द्रियाः 2