________________ [55] नवतत्व वृ. 2 / एषामेव कर्मणां केषांचिन्मधुररसः केषांचित् कटुरसः केषांचित्तीवरसः स्यात् स रसबन्धः 3 / तेषामेव कर्मणां यत् पुद्गलपरिमाणं भवति स प्रदेशबन्धः 8 / एवं बन्धतत्वस्य चत्वारो भेदाः // 36 // पुनः प्रकारान्तरेण प्रक्षेपगाथया कर्मणां स्वभावमाह पडपडिहारसिमज्जा हडिचित्तकुलालभंडगारिणं / जह एएसि भव्या कम्माण वि जाण तह भावा // 37 // रे भव्यजीव ! त्वमेवं जानीहि यथा-पटादीनामष्टानां पदार्थानां भावा स्वभावास्तथा ज्ञानावरणीयादीनामष्टानां कर्मणां भावः / कथमित्याह-यथा-पटो लोचनमावृणोत्येवं ज्ञानावरणीयं ज्ञानमावृणोति 1 / प्रतिहारो राजादर्शनार्थमागच्छन्तं नरं रुणद्धि एवं दर्शनावरणीयं दर्शनं रुणद्धि 2 / असिः-खड्गो यथा देहादि छिनत्त्येवं वेदनीयकर्माऽपि 3 / तथा मद्यं मदिरा मनुष्यं प्रतिमोहयति विकलं विहलं च करोत्येवं मोहनीयं कर्म 4 / हडिः खोड्ड कस्तत्र पतितो मनुष्यो यथा न निस्सरितुं शक्मोत्येवमायुर्ववाहोऽपि जीवः 5 / तथा चित्रकरचित्राणि यथा नानाप्रकाराणि तथा नामकर्मापि 6 / कुलालः कुम्भकारः यथा नानाप्रकाराणि प्रशस्तान्यप्रशस्तानि भाण्डवस्तूनि निष्पादयत्येवं गोत्रकर्माऽप्युच्चैर्नीचैर्गोत्राणि 7 / तथा भाण्डाधिकारी राज्ञा न ददात्येवमन्तरायकर्माऽपि 8 इत्यष्टमं बन्धतत्वम् 8 // 38 // . अथ नवमं मोक्षतत्वं तस्य नव भेदास्तानाहसंतपयपरुवणया दब्बपमाणं च खित्तफुसणा य / कालो य अंतरं भाग भावे अप्पाबहुं चेव / / 39 //