________________ प्रकरणत्रयी [33] तथा संज्ञिषु मनुष्यादिषु मनःसहिता दश प्राणा भवन्ति ते बोद्धव्या-ज्ञातव्याः। अथ मरणं किमुच्यते इत्याह-- तैस्तैः स्वकैः प्राणैः समं विप्रयोगः छुटनं मरणमिति जीवानां भण्यते परं शाश्वतो जीवो न म्रियते तस्यामरत्वात् , नित्यत्वात् , अजीवत् जीवति जीविष्यतीति जीव इति व्युत्पत्तिसद्भावाच्च / इत्यष्टगाथाभिः कृत्वा जीवतत्वं निरुपितम् 1 // 8 // अथाजीवतत्त्वस्य चतुर्दशभेदानाह-- धम्माधम्मागासा तियतिय भेया तहेव अध्धा य / / खंधा देसपएसा परमाणु अजीव चउदसहा // 9 // ____ धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः एते त्रयोऽपि तियतियभेया-त्रिकत्रिकभेदाः / कथमित्याह-धर्मास्तिकायस्कन्धः 1 धर्मास्तिकायदेशः 2 धर्मास्तिकायप्रदेशः 3 एवमधर्मास्तिकायस्कन्धः 4 अधर्मास्तिकायदेशः 5 अधर्मास्तिकायप्रदेशः 6 जाताः षडेवमाकाशास्तिकायस्कन्धः 7 आकाशास्तिकायदेशः 8 आकाशास्तिकायप्रदेशः 9 जाता नव तथैवाद्धा-काल: 10 जाता दश पुनः पुद्गलास्तिकायस्कन्धः 11 पुद्गलास्तिकायदेशः 12 पुद्गलास्तिकायप्रदेशः 13 परमाणुश्च 14 एतेऽजीवतत्वस्य चतुर्दश भेदा ज्ञातव्याः। पूर्वोक्ता धर्मास्तिकायस्कन्धादयः कालपर्यन्ता भेदा अरुपिणः पुद्गलास्तिकायस्य चत्वारो भेदा रूपिणस्तत्रापि परमाणुः सूक्ष्मत्वात केवलिप्रत्यक्षो न छद्मस्थगम्यः /