________________ प्रकरणत्रयी - [32] . ननु श्रीभगवत्यादिसिद्धान्तेषु देवानां पञ्च एव पर्याप्तयः कथं प्रतिपादिताः? - उच्यते-तत्र भाषामनःपर्याप्त्योरुत्पत्तेः समये जायमानत्वादेकत्वेन विवक्षाकरणान्न दोषः // 6 // . अथ कतिप्राणाः ? ते प्राणाः केषु जीवेषु कति लभ्यन्ते तंदाह-- दसहा जियाण पाणा इंदियऊसास आउबलरूवा / एगिदिएसु चउरो विगलेसु छ सत्त अटेव // 7 // असन्निसन्निपंचिदिएसु नव दस कमेण बोधव्वा / तेहिं सह विप्पओगो जीवाणं भन्नए मरणं // 8 // ..जीवानां प्राणादशधा-दशप्रकारा भवन्ति / ते के इत्याह-पञ्च स्पर्शन 1 रसन र घ्राण 3 चक्षुः 4 श्रोत्र 5 रूपाणीन्द्रियाणि, श्वासोच्छ्रवासः 6 आयुः 7 मनोबलं 8 वचनवलं 9 कायबलं 10 चैते दश प्राणाः / तत्रैकेन्द्रियेषु स्पर्शनेन्द्रियः 1 श्वासोच्छ्वासः 2 आयुः 3 कायबलं 4 चैते चत्वारः प्राणा लभ्यन्ते / . विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेष्वनुक्रमेण षट्सप्ताष्टौ च लभ्यन्ते / अयमर्थः-त एव पूर्वोक्ताश्चत्वारः प्राणा रसनेन्द्रियवचनबलसहिताः षट् द्वीन्द्रियेषु भवन्ति / एते एव षट् घ्राणेन्द्रियसहिताः सप्त त्रीन्द्रियेषु भवन्ति / एते एव सप्त चक्षुरिन्द्रियसहिता अष्टौ चतुरिन्द्रियेषु भवन्ति // 7 // तथाऽसंज्ञिपञ्चन्द्रियेषु संमृच्छिममनुष्यादिषु पूर्वोक्ता एवाष्टौं श्रोत्रेन्द्रियसहिता नव भवन्ति /