SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रकरणत्रयी [10] च पुनर्वक्ष्यमाणा जीवाश्चतुरिन्द्रिया उच्यन्ते / एषां देहमुखघाणचभृषि स्युरित्यर्थः / तान्दर्शयति-वृश्चिकः प्रसिद्धः, ढिकुणा जीवविशेषाः, भ्रमराः कृष्णवर्णाः, भ्रमरिकाः पीतादिविविधवर्णाः विविधाकारवत्यश्च, तिडाः प्रसिद्धाः, मक्षिका अपि प्रतीता एवोपलक्षणान्मधुमक्षिकादयोऽपि ग्राहयाः, दंशाः सिन्धुदेशप्रसिद्धा वर्षोद्भवाः, मशकास्तु दंशकाकारवन्तः सर्वत्र्तृभाविनश्च, कंसारिका प्रसिद्धा, कपिलडोलका जीवविशेषः, खडमांकडीति प्रसिद्धः, आदिशब्दात् पतंगढिंढणादयो ग्राह्याः / एवमन्येऽ. प्यनेके चतुरिन्द्रिया जीवा ज्ञेयः // 18 // अथ पञ्चेन्द्रियभेदानाह-- पंचिंदिया य चउहा, नारयतिरियामणुस्सदेवा य / नेरइया सत्तविहा नायव्वा पुढविभेएणं // 19 // पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्रनामकानीन्द्रियाणि येषां ते पञ्चेन्द्रिया जीवाः / ते चतुर्द्धा-नारकाः 1 तिर्यचो 2 मनुष्याः 3 देवाश्च 4 / तत्र नैरयिका रत्नप्रभापृथ्वीभेदेन सप्तविधाः ज्ञातव्याः / पृथ्वीनां नामानि यथा-रत्नप्रभा 1 शर्कराप्रभा 3 वालुकाप्रभा 3 पंकप्रभा 4 धूमप्रभा 5 तमःप्रभा 6 तमस्तमःप्रभा 7 चेति / एतत् स्थानसप्तको. त्पन्नत्वान्नारका अपि सप्तधोच्यन्ते // 19 // पञ्चेन्द्रियेषु नारकभेदानुक्त्वा अथ गाथाचतुष्टयेन पञ्चेन्द्रियतिरश्वां मनुष्याणां च भेदानाह-- जलयस्थलयरखयरा तिविहा पंचिंदिया तिरिक्खा ये / सुसुमारमच्छकच्छवगाहा मगराइ जलचारी // 20 //
SR No.004427
Book TitlePrakarantrai
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages116
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy