________________ प्रकरणत्रयी [8] कीदृशाः ? नियमादन्तर्मुहूर्तायुषः / पुनः कीदृशाः ? अदृश्याश्चर्मचक्षुषामगोचराः केवलिनां ज्ञानगोचराः इत्यर्थः / अतएव वहिशस्त्रादिभ्यः तेषामुपधातो न भवति // 14 // उक्ताः स्थावरभेदाः, सांप्रतं क्रमायातास्त्रसाः ते च द्वित्रिचतुःपंचेन्द्रियभेदाच्चतुर्धा, तेषु तावद् द्वीन्द्रियभेदानाह- .. संखकवड्डयगंडुल, जलोयचंदणगअलसलहगाई। मेहरि किमि पूअरगा, बेइंदियमाईवाहाई // 15 // शंखः प्रसिद्धः, कपर्दको वराटः, गंडोला उदरान्तर्वृहत्कृमयः, जलौकसः प्रसिद्धाः, चंदनकाः समयभाषयाऽक्षत्वेन प्रतीताः, अलसा भूनागाः ये वर्षाकाले वृष्टौ सत्यां भुव्युत्पद्यन्ते, लहका लालीयकजीवाः ये कूथितपूयिकादौ लालारूपाः समुत्पद्यन्ते, केचित्तु लहुगा इति पठन्ति लघुगात्रीति तस्यार्थः, अत्रापि पाठे त एव जीवा ज्ञेयाः, मेहरत्ति काष्ठकीटविशेषाः,कमय उदरान्तवति जीवाः, हर्षा मूलगुदप्रदेशकंडूकरा स्त्रीयोन्यन्तर्गता वा गडूत्पन्ना वा अनेकधा ज्ञेयाः, पूतरका जलान्तर्वतिनो रक्तवर्णाः कृष्णमुखजीवाः, मातृवाहिका गुर्जरदेशप्रसिद्धाः चूडेलीर्तिनाम्ना विरुयाताः, आदिशन्दात् शुक्त्यादयो वालकादयश्च द्वीन्द्रियभेदा अनुक्ता अपि ग्राह्याः / वालका ये मनुष्यांगे करपादादिषूत्पद्यन्ते / इहोभयत्रादिपपदग्रहणाद् द्वीन्द्रिया जलजस्थलजभेदभिन्ना अनेकधा ग्राह्याः। एवं सर्वेऽपि द्वीन्द्रिया जीवा ज्ञेयाः / एषां देहवदनरूपमिन्द्रियद्वयमस्तीत्यर्थः // 15 //