________________ प्रकरणत्रयी [2] भुवणपईवं वीरं नमिऊण भणामि अबुहबोहत्थं / जीवसरूवं किंचिवि जहमणियं पुव्वसूरीहिं // 1 // भुवणेति-अत्र भणामीति क्रियाभिसंबन्धादहमिति कर्तृपदमध्याहार्य / ततश्चायमन्त्रयः-अहं वीरं श्रीवर्द्धमानजिनं नत्वा किंचिदल्पं जीवस्वरूपं सिद्धमांसारिकादिभेदभिन्न भणामि ब्रवीमि / कीदृशं वीरं ? भुवनप्रदीपं भुवने विश्वे प्रदीप इव भुवनप्रदीपः जीवाजीवादिसकलपदार्थसार्थप्रकाशकः तं / किमर्थम् ? अबुधबोधार्थ-अबुधा अज्ञातजीवाजीवाद्यर्थाः तेषां बोधार्थ तद्विज्ञापनायेत्यर्थः / कथं भणामीत्याह -यथा पूर्वसूरिभिःगौतमसुधर्मादिभिः पूर्वाचार्भणितं तथा भणामि न तु स्वमनीषिकयेत्यर्थः // 1 // अथ तावजीवभेदानाहजीवा मुत्ता संसारिणो य तस थावरा य संसारी / पुढविजलजलणवाऊवणस्सई थावरा नेया // 2 // जीवन्ति कालत्रयेऽपि प्राणान् धारयन्तीति जीवाः / ते च द्विधा -एके मुक्ताः सिद्धा इत्यर्थः / च पुनरर्थे अन्ये संसारिणः चतुर्गतिरूपसंसारस्था इत्यर्थः / ते च संसारिणो द्विधा-एके त्रसाः सनामकर्मोंदयवर्तिनः द्वीन्द्रियादयः।च पुनरन्ये स्थावराः स्थावरनामकर्मोदयवर्तिन एकेन्द्रिया इत्यर्थः। तत्र प्रथम स्थावरभेदानाह-- पुढवीत्यादि-पृथ्वी 1 जल 2 ज्वलन 3 वायु 4 वनस्पतयः 5 पृथिव्यप्तेजःपवनवनस्पतयः एते पश्चापि स्थावरा ज्ञेया ज्ञातव्याः॥२॥