________________ श्रोप्रवचनाय नमः / नमो नमः श्रीगुरुप्रेमसूरये // श्रीक्षमाकल्याणगणिविरचितवृत्तिसहितम् श्री शान्तिसूरिविरचितम् जीवविचारप्रकरणम् ध्यात्वा जैनं महः श्रीमत्सद्गुरुं प्रणिपत्य च / वृत्तिं जीवविचारस्य कुर्वे संक्षेपतः स्फुटाम् // 1 // इह हि संसारसागरे निमज्जतां जन्तूनामुपकाराय प्रवहणकल्पं तत्त्वोपदेशं दातुकामः श्रीशान्तिस्तावत्स्वेष्टदेवप्रणतिपूर्विकामभिधेयादिसूचिकामादिमां गाथामाह