________________ [87] दण्डक वृ. पर्याप्ता मनुष्याः सर्वस्तोकाः, कथं ? सर्वस्तोकसंख्यात्वात् , तेभ्यो बादराग्निरसंख्यातगुणः, तस्मात् वैमानिका असंख्यातगुणाः, तेभ्यो भवनपतय असंख्यातगुणाः, तेभ्यो नारका असंख्यातगुणाः, तेभ्यो व्यन्तरा असंख्यातगुणाः, तेभ्यो ज्योतिष्काः संख्यातगुणाः, तेभ्यश्चतुरिन्द्रियाः संख्यातगुणाः, तेभ्य पञ्चेन्द्रियास्तियंचो विशेषाधिकाः, तेभ्यो द्वीन्द्रियाः विशेषाधिकाः, तेभ्यः त्रीन्द्रिया विशेषाधिकाः, तेभ्यः पृथिवी कायिका जीवा असंख्यातगुणाः, तेभ्यः अप्कायिका . जीवा असंख्यातगुणाः // 37 // तेभ्यो वायुकायिका संख्यातगुणा, तेभ्यो वनस्पतिजीवा अनंतगुणाः / एते पञ्चदशप्रकारा जीवभेदा अनुक्रमेण अधिका ज्ञेयाः / तत्र केचित् संख्यातगुणाः, केचिदसंग्च्यातगुणाः, केचित् विशेषाधिकाः, केचिदननगुणाः इति / अथ स्तोत्रकर्ता स्वकीयस्वरूपं प्रार्थनां च कुर्वनाह--'सव्वेवि इमे भावा जिणा ! मएणंत सो पत्ता'-हे जिनाः / सर्वेऽपि पूर्वोक्ताश्चतुवंशतिदण्डका मया अनंतशोऽनंतान् वारान् प्राप्ताः // 38 // संपइ तुम्ह भत्तस्स दंडगपयभमणभग्गहिययस्स / दंडतिअविरइ सुलह लहु मम दितु मुक्खपयं // 39 // संप्रत्यथ हे जिना ! इति शेषः, मम मह्यं लघु शीघ्रं मोक्षपदं ददतु किं विशिष्टाय मह्यं ? तुम्हभत्तस्स-युष्माकं भक्तस्य पुनः किंविशिष्टस्य ? मम दंडगपयभमणभग्गहिययस्स दण्डकपदेषु भ्रमणं तेन भग्नं हृदयं यस्य स तस्य किं विशिष्टं मोक्षपदं ? 'दंडतिअविरइसुलहं'-दंडा मनोवचःकायदंडास्तेषां त्रयं दण्डत्रयं तस्माद या विरतिविरमणं तया सुलभं सुप्राप्यम् // 39 //