________________ * प्रकरणत्रयी [86] मनुष्याः सर्वत्र चतुर्विंशतिदण्डकेषु मृत्वा यान्ति, संहनन-कालादिसद्भावे मुक्तावपि यान्ति इति गतिः, तेजोवायुभ्यां सकाशात् नागच्छन्ति इति मनुष्याणां गत्यागती, इति गत्यागती आश्रित्य इति चतु. विंशतिदण्डकलापनिका // ____ अत्र संमृर्छिममनुष्याणामधिकारो नास्ति तथापि सोपयोगत्वेन तेषां गत्यागती अनया गाथया ज्ञेये, तथाहि-- जंति संमुच्छि महुआ पुढवाइदसपएसु नियमेण / आगच्छंति अडए (?) तेउवाउहितो न हुंति नरा // इदं त्रयोविंशतितमं द्वारं 23 // 35 // अथ चतुर्विंशतितमं वेदवारमाहवेअतिअतिरिनरेसु इस्थिपुरिसोअ चउविहसुरेसु / थिरविगलनारएमु नपुंसवेओ हवइ एगो // 36 // तिर्यगनरेषु वेदत्रिकं पुं-स्त्री-नपुंसकरूपं, स्त्री-पुरुषश्चेति वेदद्वयं चतुर्विधदेवेषु, स्थिराः पृथिव्यपूतेजोवायुवनस्पतिरूंपाः पञ्च विकलाः द्वि-त्रि-चतुरिन्द्रियाः नारका एतेषु एका. नपुंसकवेद एव इति वेदद्वारं, इत्यनेन जातानि चतुर्विशतिद्वाराणि सम्पूर्णानि 24 // 36 // अथात्रानुक्तमपि अल्पबहुत्वद्वारमाहपज्जमणुवायरगिवेमाणिअभवण निरय वंतरिआ। जोइसचउपणतिरिआ बेइंदितेइंदिभूआऊ // 37 // वाऊवणस्सइ चिअ अहिआ अहिआ कमेणिमे हुंति। सव्वेवि इमे भावा जिणा ! मएऽणंतसो पत्ता // 38 //