________________ 142 यति-जीतकल्प तिसेवनाकारिणस्तु भिन्नमासादीनामापत्तौ सत्यां स्थानान्तरवृद्धिः कार्या / निर्विकृतिकं मुक्त्वा पुरिमार्दा दीनि दशमान्तानि देयानीति / / आउट्टिआइ ठाणंतरं व सठाणमेव वा दिज्जा / कप्पेण पडिक्कमणं तदुभयमहवा विणिद्दिढ // 252 // व्याख्या- आकुट्टिकाप्रतिसेवायां साधोः स्थानान्तरं वा दद्यात् / दर्पप्रतिसेवाकारिण; सकाशोत् स्थानवृद्धयाधिकं तपःस्थानं वितरेत् / दर्पप्रतिसेविनो हि भिन्नमासाद्यापत्तौ पुरिमार्द्धादीनि दशमान्तानि दीयन्ते अस्य त्वेकासनादीनि द्वादशान्तानि देयानि / ' स्वस्थानमेव' वा दद्यात् / इहाप त्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते / यथाऽऽकुट्टिकया पञ्चेन्द्रियवधे मूलम् / अन्यत्रापि चाकुट्रिकया यत्रापराधे यद् भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानं तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः / कल्पेनकल्पप्रतिसेवनया प्रतिक्रमणं-मिथ्यादुष्कृतं प्रायश्चित्तम् / अथवा तदुभयम्-आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं विनिर्दिष्टम् / / इदं चोक्तस्वरूपं प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याह -. आलोअणकालंमि वि संकेस-विसोहिभावओ नाउं / हीणं वा अहिअं वा तम्मत्तं वा वि दिज्जाहि // व्याख्या-आलोचनाकालेऽपि कमप्यपराधविशेषं यः सर्वथा न प्रकाशयति कथयन्नप्यर्द्धकथितं वा करोति स सङ्क्लिष्टपरिणाम इति ज्ञात्वा तस्याधिकमपि दद्यात् / यः पुनः संवेगमुपगतो निन्दागर्दादिभिर्विशुद्धपरिणामः तस्य हीनमपि दद्यात् / यः पुनर्मध्यस्थपरिणामः तस्य तन्मात्रमेव दद्यात् / / उक्तमेवार्थ दृढयन्नाहइअ दव्बाइ बहुगुणे गुरुसेवाए अ बहुतरं दिज्जा / हीणयरे हीणयरं हीणयरे जाव झोसु त्ति // 254 / / व्याख्या-इति-अमुना प्रकारेण द्रव्यादौ द्रव्यक्षेत्रकालभावाख्ये प्रतिसेव्ये बहुगुणे-बहुगुणिते प्रचुरदोषत्वेन समर्थे वा, विपरीतलक्षणया वा बहुदोषे गुरुसेवायां-गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात् / हीनतरे-ऽल्पदोषे द्रव्यादिके प्रतिसेविते हीनतरमल्पतरं प्रायश्चित्तं दद्यात / ततोऽपि हीनतरे यावत्सर्वहीनेऽत्यल्पदोषे द्रव्यादौ अत्यल्पीयस्यां सेवायां 'झोसुत्ति ।क्षपणा-हासः कार्यः / सर्वस्तोक तपो देयमित्यर्थः / कुत्रापि च सर्वथापि ह्रासः क्रियत इति प्रतिपादयन्नाहझोसिज्जइ सुबहुं पि हु जीएणनं तवारिहं वहओ। वेआवच्चगरस्स उ दिज्जइ साणुग्गहतरं वा // 255 // व्याख्या - इह जीतेन यद्येक गुरुभिर्वितीर्ण पाण्मासिकादितपो वहतः पञ्च-षट्स्वपि दिवसेसु गतेष्वन्यच्चातुर्मासिकं पाण्मासिकं वा तपोर्ह समापन्नं ततः तत्क्षिप्यते-सुबहुकमपि हास्यते, सर्वथापि तस्य न दीयत इत्यर्थः / वैयावृत्त्यकरस्य च सानुग्रहतरं वा दीयते / कोऽर्थः ? यावन्मानं तपस्तप्यमानः स वयावृत्त्यं कर्तुं शक्नोति तस्य तावन्मात्रमेव तपो दीयते नाधिकम् / अथ पूर्वोपन्यस्तनवविधश्रुतव्यवहारं विभागतो दिदर्शयिषुरिभूतां गाथामाह - ति नव सगवीस इगसी पक्खे आवत्तिदाण कालतिगे / नवतवसुअववहारो जंते दसरेहि तिरिउड्ढं //