________________ प्रतिसेवनास्वरूपम् 141 सप्तम्या गीतार्थः स्थिरोऽकृतकरणभिक्षुः / अष्टम्या गीतार्थोऽस्थिरः कृतकरणभिक्षुः / नवम्या गीतार्थाऽस्थिरोऽकृतकरणभिक्षुः। दशम्या अगीतार्थः स्थिरः कृतकरणः / एकादश्या अगोतार्थः स्थिरोऽकृतकरणः / द्वादश्या अगीतार्थोऽस्थिरः कृतकरणः / त्रयोदश्या उपरि अगीतार्थोऽस्थिरोऽकृतकरणभिक्षुरिति स्थापयित्वा पृथुत्वेन प्रथमायां पङ्क्तौ निरपेक्षस्याधो गृहद्वये शून्यं स्थाप्यं, यतस्तयोः पाराश्चिकानवस्थाप्ये भवतः, ते च जिनकल्पिकस्य न सम्भवतः। तस्य हि स्वभावेनैव निरपेक्षत्वात् / अथ तयोः शून्ययोरधस्त्रयोदशसु गृहेषु मूल-छेद-षड्गुरु षड्लघु चतुर्गुरु-चतुर्लघु-मोसगुरु-मासलघु-भिन्नमास-विंशतिक-पञ्चदशक-दशक-पञ्चकानि स्थाप्यन्ते / द्वितीयायां पङ्क्तौ पाराञ्चिकादीनि दशकान्तानि / तृतीयायामनवस्थाप्यादीनि पञ्चकान्तानि / चतुर्थ्यामनवस्थाप्यादीनि दशकान्तानि / पञ्चम्यां मूलादीनि पञ्चकान्तानि / षष्ठ्यां मूलादीनि दशकान्तानि / सप्तम्यां छेदादीनि पञ्चकान्तानि / अष्टम्यां छेदादीनि दशकान्तानि / नवम्यां षड्गुर्वादोनि पञ्चकान्तानि / दशम्यां षड्गुर्वादीनि दशकान्तानि / एकादश्यां षड्लवादीनि पश्चकान्तानि / द्वादश्यां षड्लध्वादीनि दशकान्तानि / त्रयोदश्यां चतुर्गुर्वादीनि पञ्चकान्तानि स्थाप्यन्ते / अत्र चैवं भावनायत्रापराधे कृतकरणाचार्यस्य पाराञ्चिकं तत्रैवापराधे अकृतकरणाचार्यादीनां दीर्घपङ्क्तिक्रमेणानवस्थाप्यादीनि प्रायश्चित्तानि भवन्ति / तथा यत्राऽपराधे कृतकरणाचार्यस्यानवस्थाप्यं तत्रैवापराशेषाणां तथैव क्रमेण प्रायश्चित्तानीत्येवं सर्वदीघपङ्क्तिषु भावना करणीया / स्थापना चैवमत्रावसेया / एतत्पुरुषविभागेन श्रुतव्यवहारतो जीतकल्पयन्त्रम् // सम्प्रति प्रतिसेवनामाह आउट्टिआइ दप्पप्पमायकप्पेहिं वा निसेविजा / दव्वं खित्तं कालं भावं वा सेवओ पुरिसो // 250 / / व्याख्या-आकुट्टिकया - उपेत्य सावद्यकरणोत्साहात्मिकया, दप्पप्रमादकल्पैर्वा दो-धावनडेपनवल्गनादिकः हास्यजनकवचनादिकं दर्परूपो वो, प्रमादो-दिवा रात्रौ वा प्रतिलेखनाप्रमार्जनाद्यनुपयुक्तता। कल्पः-कारणे दर्शनादिचतुर्वि शतिरूपे सति गीतार्थस्य कृत योगिन उपयुक्तस्य यतनया आधाकर्माद्यादानरूपः / तैरेतेश्चतुर्भिः प्रतिसेवनारूपैरासेवकः पुरुषो निषेवेत-प्रतिसेवेत / द्रव्यम्-आहारादिकं किञ्चिदशुद्धमप्याददीत / क्षेत्र-छिन्नमडम्बादिकं स्तोकलोकाश्रयं सार्द्धयोजनं यावदविद्यमानवसत्प्रदेशं यत्र सम्पूर्णा भिक्षा न लभ्यते / कालो-दुर्भिक्षादिर्यत्र सर्वथाऽन्नादिर्न प्राप्यते / तं प्रतिसेवेत / अयमाशयःसाधुना महति क्षेत्रे काले च गत्वा स्थेयम् / आकुट्टिकादिभिर्हि छिन्नमडम्बादिकं क्षेत्रं दुष्कालं च प्रति. सेवमानः संयमात्मविराधने प्राप्नुवन् / भावं च-हृष्टग्लानत्वादिकं प्रतिसेवते / आकुट्टिकादिभिरहिताऽन्नौषधादिकं भुक्त्वा ग्लानत्वादिकं भावमुत्पादयेदित्यर्थः। उक्ताः स्वरूपतः प्रतिसेवनाः त सां प्रायश्चित्तमोहजं जीअदाणमुत्तं एवं पायं पमायसहिअस्स / इत्तो चिअ ठाणंतरमेगं वढिज्ज दपवओ // 251 // व्याख्या-यज्जीतदानं-जीतव्यवहारे तपोदानमुक्तम् / एतत्सर्वं प्रायः प्रमादसहितस्य-प्रमादप्रतिसेवना-प्राग्गाथाविवरणव्याख्यातद्रव्यादिसेविनो भणिताः / इत एव प्रमादप्रतिसेवकप्रायश्चित्तादेकं स्थानान्तरं वर्द्धयेत् दर्पवतः / अयमर्थः-प्रमादप्रतिसेवनया भिन्नमास-लघुमास-गुरुमास-चतुर्लघु-चतु: गुरु-षड्लघु-षड्गुरूणामापत्तौ निर्विकृतिकपुरिमार्द्वकासनाचामाम्लचतुर्थषष्ठाष्टमाख्यं तपो दीयते / दर्पप्र