________________ कालविषयं प्रायश्चित्तम् , व्याख्या-आहारादिकं द्रव्यं यत्र देशे बलिकं सुलभं च / यथा अनूपदेशे शालिकूरो बलिकः स्वभावेनैव सुलभश्च तज्ज्ञात्वाऽधिकमपि जोतोक्ताद् बहुतरमपि दद्यात् / यत्र पुनर्वल्लचणककञ्जिकादिको रूक्षाहारो दुर्बलो दुर्लभश्च तं ज्ञात्वा हीनमपि जीतोक्तादल्पमपि दद्यादित्यर्थः // अथ क्षेत्रकालाभिधानार्थमाहलुक्खं सीअल साहारणं च खित्तमहिअंपि सीमि / लुक्खंमि अ हीणतरं एवं काले वि तिविहंमि // व्याख्या-रूक्षं क्षेत्रं स्नेहरहितं वातिलं वा / शीतलं पुनः स्निग्धमनूपं च / साधारण-मध्यस्थम् अस्निग्धरूक्षम् / इह शीते-स्निग्धक्षेत्रे जीतोक्तादधिकमपि दद्यात् / रूक्षे च हीनतरं-जीतोक्तादल्पतरम् / अत्र चकारोऽनुक्तसमुच्चये / तेन साधारणे क्षेत्रे साधारणं जीतोक्तमात्रमेवाहीनाधिकं दद्यादिति ज्ञेयम् / कालेऽपि त्रिविधे वर्षाशिशिरग्रीष्मरूपे / एवम्-अमुनवोक्तप्रकारेण जीतोक्ताधिकसमहीनानि तपांसि यथासङ्ख्यं दद्यादिति सामान्यातिदेशः / विशेषतः कालं प्रपञ्चयन्नाह - गिम्हसिसिरवासासुं दिजट्ठमदसमबारसंताई / नाउं विहिणा नवविहसुअववहारोवएसेणं // 248 // व्याख्या-अत्र कालनिनिधो ग्रीष्मशिशिरवर्षालक्षणः / स सामान्यतो द्विधा-स्निग्धो रूक्षश्च / स च द्विरूपोप्युत्कृष्टमध्यमजघन्यभेदात् त्रिधा / तत्रोत्कृष्टस्निग्धो अतिशीतः / मध्यमस्निग्धो नातिशीतः / जघन्यस्निग्धः स्तोकशीतः / उत्कृष्टरूक्षो अत्युष्णः / मध्यमरूक्षो नात्युष्णः / जघन्यरूक्षो कवोष्णः / एवंरूपे ग्रीष्मशिशिरवर्षाख्ये कालत्र नवविधश्रुतव्यवहारोपदेशेन नवविधो-नवविधतपोदानलक्षणश्चासौ श्रुतव्यवहारोपदेशश्च तेन नवविधश्रुतव्यवहारोपदेशेन विधिना-वैपरीत्याभावेन ज्ञात्वा अष्टमदशमद्वादशान्तानि तपांसि दद्यात् / अयं भावार्थः-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि / षष्ठाष्टमदशमानि मध्यमानि / अष्टमदशमद्वादशान्युत्कृष्टानि / उक्तं च गिम्हासु चउत्थं दिज्जा छट्टगं च हिमागमे / वासासु अट्ठमं दिज्जा तवो एस जहन्नगो / गिम्हासु छटुंगं दिज्जा अट्टमं च हिमागमे / वासासु दसमं दिज्जा एस मज्झिमगो तवो / गिम्हासु अट्ठमं दिजा दसमं च हिमागमे / वासासु दुवालसमं एस उक्कोसओ तवो / एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेशः / एष च नवविधश्रुतव्यवहारोपदेशो द्विधा-ओघतो विभागतश्च / तद्विचारश्च बहुविस्तर इति कृत्वाऽने दर्शयिष्यते प्रन्थकृता स्वयमेव / / उक्तं कालविषयं प्रायश्चित्तं, साम्प्रतं भावविषयमाहहट्ठगिलाणा भामि दिज हट्ठस्स न उ गिलाणस / जावइ वा विसहइ तं दिज सहिज वा कालं // व्याख्या-भावे-भावतः कश्चिदालोचनाग्राही हृष्टो-नीरोगः समर्थः, कश्चिद् ग्लानो-रोगी शक्ति