________________ पावस्थादीनामशमादेः दाने ग्रहणे च दोषाः 137 षड्गुरु सप्त दिनानि, तत एते एव च्छेदाः सप्त सप्त दिनानि / ततो मूलानवस्थाप्यपाराश्चिकान्येकैकदिनम् / अथवा-चतुर्लघ्वादीनि तपांसि तान्येव सप्त सात दिनानि / ततो लघुपञ्चकादिकाः षड्गुरुपर्यन्ता छेदाः प्रत्येकं सप्त सप्त दिनानि ज्ञातव्याः / ततो मूलानवस्थाप्यपाराठिचकान्येकैकदिनम् / पार्श्वस्यादिषु च वाचनादानादानयोर्वन्दन-दुष्टसंसर्गादयोऽनेकदोषाः / अन्यतीर्थिकगृहिभ्यो ग्रहणे मिथ्यात्वस्थिरीकरण यथा ते तेषां समीपे गच्छन्तं दृष्ट्वा मिथ्यादृष्टयश्चिन्तयन्ति-इमे एव प्रधानतरा यत एतेप्येतेषां समीपे शिक्षन्ते / लोको दृष्ट्वा भणति- एतेषामात्मन आगमो मास्ति, परसत्कानिशिक्षन्ते, निस्सारं प्रवचनमित्यपभ्राजना / एवमादयो दोषाः / तेषां च दोनेऽधिकरणादयों दोषाया पुनगृही अन्यतीर्थिको वा ज्ञानदर्शनचारित्राणि प्ररूपयति जिनवचनं च रोचते यस्य स्वपाषण्डयेव स वाच्यते / तथा गृही परपाषण्डी वा प्रव्रज्याऽभिमुखो वाच्यते / श्रीवको वा सूत्रतः षडजीवनिकां यावदर्थस्तु पिण्डेषणाध्ययनं यावत् / पार्श्वस्थादिर्वा संविग्नविहारमभ्युपगतोऽभ्युगन्तुकामो वा वाच्यते / तथाऽन्यत्रालाभे सिद्धान्ताव्युच्छित्त्यर्थं पार्श्वस्थादिभ्योऽपि गृह्यते, संयतीनां च यद्याचार्य विना प्रवत्तिन्यादिर्वाचयित्री नास्ति तदाऽऽचार्यों वाचनां ददाति न दोषः / तथा गृहीणामन्यतीर्थिकानां वा अशनाद्याहारदाने चतुर्लघु, आज्ञाभङ्गादयश्च दोषाः / यदुक्तम्'जे भिक्खू असणादी दिज्जा गिहि अहव अन्नतित्थीण / सो आणा अणवत्थं मिच्छत्त विराहणं पावे' / / सव्वे वि खलु गिहत्था परपवादी य देसविरया य / पडिसिद्धदाणकरणे समणे परलोगकंखिम्मि' / / . एतेषु दानं शरीरशुश्रूषाकरणं वा, अथवा दानस्यैव करणं यः परलोककोङ्क्षी श्रमणः तस्यैतत् प्रतिषिद्धम् / अत्र नोदकः प्राह जुत्तमदाणमसीले कडसामइओ उ होइ समण इव / तस्समजुत्तमदाण आचार्य आह-चोअग ! सुण कारणं तत्थ / / रंधणकिसि वाणिज्जं पव्वत्तइ तस्स पुव्वविणिउत्तं / सामाइअकडजोगिस्सुवस्सए अच्छमाणस्स / / सामाइअ पारेऊण निग्गओ जाव साहुवसहीओ। तं करणं साइज्जइ उदाहु तं वोसिरइ सव्व / / दुविह तिविहेण रुंभइ अणुमण्णा तेण सा न पडिसिद्धा / तेण उ न सव्वविरओ कडसामइओबि सो किं च // कामी सघरंगणओ थूलपइण्णा सि होइ ददुव्वा / छेअणभेअणकरणे उद्दिटुकडं च सो भुजे'। अस्याः चूपिणः-पंचविसया कामेति त्ति कामी / सह गृहेन सगृहः / अङ्गना-स्त्री सह अङ्गनया साङ्गनः / थूलपइण्णा देसविरति त्ति वुत्तं भवति / साधूणं सव्वविरई, वृक्षादिच्छेदने पृथिव्यादिभेदने च प्रवृत्तः सामायिकंभावादन्यत्र, जं च उद्दिटुकडं तं कडसामइओ वि भुंजइ / एवं सो सम्वविरओ न भवति / एएणं कारणेणं तस्स न कप्पइ दाउं / इमो अववाओ-गिही अन्नतित्थी वा णिबंघेणं मग्गिज तदा से दिज्जति / सेहो वा गिहिवेसढिओ भावतो पव्वइओ तस्स दिजा / विज्जस्स वा गिलाणट्ठा आणिअस्स दिज्जति / एवमादि एवं पार्श्वस्थावसन्नकुशीलसंसक्तनित्यवासिनामशनादिदाने तेभ्यो वा अशनादिग्रहणे चतुर्लघु आज्ञादयश्च दोषाः / उक्तं च