________________ यति-जीतकल्प एवं इमं वा करेहि / इत्थ बहुदोसा जहाहं भणामि तहा करेहि त्ति / एवं करितो संपसारओ भवति / ते अ इमे असंजमकज्जा गिहिनिक्खमणपवेसे आवाहविवाहविक्कयकए वा / गुरुलाघवं कहते गिहिणो खलु संपसारीओ // गिहिणं असंजयाणं गिहाओ दिसि जत्ताए वा निग्गमयं देइ / जत्ताओ वा आगयस्स पवेसं देइ / आवाहो बिट्टिआलंभणयं सुहं दिवसं कहेइ मा वा एअस्स देहि इमस्स वा देहि / विवाहपडलमादिरहिं जोइसगंथेहिं विवाहवेलं देइ / अग्घकंडमादिएहिं गंथेहि इमं दव्वं विकिणाहि इमं वा किणाहि / एवमादिएसु कज्जेसु गिहीणं गुरुलाघवं कहितो संपसारत्तणं पावइ / एवं प्रकल्पाध्यनाभिहितस्वरूपा यथाछन्द-पार्श्वस्थ-कुशीला-ऽवसन्न-संसक्त--नियत-काथिक-दार्शनिक-मामाक-सम्प्रसारका एते दश न वन्दनीया न प्रशंसनीयाश्च / यदुक्तम् एएसामण्णतरं जे भिक्खु पसंसए अहव वंदे / सो आणा अणवत्थं मिच्छत्तविराहणं पावे / पासत्थाई बंदमाणस्स नेव कित्तो न निजरा होइ / कायकिलेसो एमेव कुणइ तह कम्मबंधं च / / अतो यथाछन्दादीनां वन्दने प्रायश्चित्तं तच्च प्रस्तुतगाथया प्रतिपाद्यते-यथाछन्दस्य अभ्युत्थाने अञ्जलिकरणे च प्रत्येकं चतुर्गुरुकाः / अभ्युत्थानं च षोढा-अभिमुखोत्थानम् , आसनोपढौकनं, किंकरोमीति भणनं, धर्मच्युतस्य पुनर्धर्मे स्थापनरूपमभ्यासकरणम् , अभेदरूपा अविभक्तिः एतत्पञ्चपदरूपः संयोगश्च / उक्तं च.. अध्भुटाणे आसण किंकर अब्भासकरण अविभत्तो / संजोगविहिविभत्ता अब्भुटाणे वि छदाणा' / ततोऽभिमुखोत्थानादिपञ्चके कृते अभ्यासकरणे पुनः सामर्थ्य सत्यकृते प्रायश्चित्तम् / अञ्जलिंकरणमपि षोढा-पञ्चविंशत्यावश्यकयुक्तं वन्दनं 1, शिरसा प्रणामकरणम् 2, एकस्य द्वयोर्वा हस्तयोर्ललाटे योजनं 3, बहुमानरसभरेण सरभसं नमो खमासमणाणमितिभणनं 4, निषद्याकरणम् 5, एतेषां योगश्च.६ / उक्तं च बंदिअ पणमिअ अंजलि गुरु आलावे अ अभिग्गहनिसज्जा / संजोगविहिविभत्ता अंजलिपगहेवि छट्ठाणा'।। पार्श्वस्थस्य पुनरभ्युत्थाने अञ्जलिकरणे च चतुर्लघुकाः / उपलक्षणत्वात् कुशीला-ऽवसन्न-संसक्त-नियतकाथिक-दार्शनिक-मामाक-सम्प्रसारकाण्वं गृहस्थानां वाऽभ्युत्थाने अञ्जलिकरणे च चतुर्लघुकाः / संयतीनां च वन्दने चतुर्गुरु / किं मैथुनार्थी कुपितां वा प्रसादयतीति शङ्का च भवतीति / तत्र च प्रायश्चित्त यथा-स्त्रीमैथुनशङ्कायर्या चतुर्गुरु / निःशङ्किते च मैथुने मूलम् / तथा पार्श्वस्था-ऽवसन्न-कुशीलसंसक्तादीनामन्यतोर्थिकानां गृहस्थानां वा बाचनादाने तेभ्यो वा वाचनाग्रहणे चतुर्लघु / अथवा--अर्थे च चतुर्गुरु / यथाछन्दानां सूत्रे चतुर्गुरु / यथाछन्दानाम् अर्थे षड्लघु। तथा पुरुषाणां स्त्रीवाचनायां चतुर्गुरु / स्त्रीणां च पुरुषवाचनायां चतुर्गुरु / पार्श्वस्थादीनामनेकदिनवाचनासु पुनः प्रायश्चित्तमिदम् सत्तरत्तं तवो होइ ततो छेओ पहावई / छेएण छिन्नपरिआए तओ मूलं तओ दुर्ग' // सप्त दिनानि चतुर्लघुतपः, ततः एक दिनं चतुर्लघुच्छेदः, ततः एकैकदिनं मूलाऽनवस्थाप्यपाराञ्चिकानि / अथवा-तपस्तथैव चतुर्लघुच्छेदः / सप्त दिनानि शेषाण्येकैकदिनं तथैव / अथवा तपस्तथैव षड्गुरुच्छेदः सप्त दिनानि शेषाणि तथैव / अथवा-चतुर्लघुतपः सप्त दिनानि ततश्चतुर्गुरुतपः सप्त दिनानि / ततः -