________________ यति-जीतकल्पे व्याख्या-तन्दुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकालकृतानि नियमान्मिश्राणि भवन्ति, ततः परं चतुर्थादिधावनं सचित्तम् / एवं तिल-तुष-यवधावनोदकान्यपि अधुना कृतानि मिश्राण्यवगन्तव्यानि / ततः प्रथमद्वितीयतृतीयतन्दुलोदकेऽधुना धौते गृहीते लघुमासः प्रायश्चित्तं भवति, मिश्रकपरिणतमिदमिति हेतोः। अन्यस्मिन्नषि तिलधावनादिके उदकेऽधुना धौते मिश्र गृहीते लघुमासः प्रायश्चित्तमवसेयम् / तन्दुलानां च तुर्ये-चतुर्थे धावने सचित्ते गृहीते चतुघुकं भवति / परे-अन्ये आचार्याः पुनस्तृतीयेऽपि तन्दुलानां तृतीयधावनेऽपि न केवलं चतुर्थे, चिरकृतेऽपि न केवलमचिरकृते चतुर्लघुप्रायश्चित्तमाहुः / यतस्तत्रापि बहु अपरिणतं स्तोकं परिणतमिति / तन्दुलोदके च यान्याद्यानि-प्रथमद्वितीयतृतीयानि त्रीणि धावनानि मिश्राण्यभिहितानि तानि चिरमवतिष्ठमानान्यचित्तानि भवन्ति / चतुर्थादीनि तु धावनानि चिरमवतिष्ठमानान्यपि सचित्तानीति तेषामग्रहणमेव / मिश्राणां च तन्दुलोदकानां परिणामे इमे त्रयोऽनागमिका आदेशास्तद्यथा भंडगपासगलग्गा उत्तेडा बुब्बुआ य न समंति / जा ताव मीसगं तंदुला य रज्झति जावन्ने' / व्याख्या-तन्दुलोदके -तन्दुलप्रक्षालनभाण्डादन्यस्मिन् भाण्डे प्रक्षिप्यमाणे ये त्रुटित्वा भाण्डकस्य पाश्चेषु उत्तेडा-बिन्दवो लग्नास्ते यावन्न शाम्यन्ति-विध्वंसमुपगच्छन्ति, तावत्तं तन्दुलोदकं मिश्रं ततः परमचित्तमित्येके / अपरे पुनराहुः-तन्दुलोदके-तन्दुलप्रक्षालनभाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तन्दुलोदकस्योपरि समुद्भूता बुबुदास्ते यावदद्यापि न शाम्यन्ति-न विनोशमिर्यति तावत् तत् तन्दुलोदकं मिश्रं ततोऽचित्तमिति / अन्ये पुनरेवमाहुः-तन्दुलप्रक्षालनानन्तरं तन्दुला राद्धमारब्धाः / ततस्ते यावन्न राध्यन्ति-यावन्नाद्यापि सिद्धयन्ति तावत तत् तन्दुलोदकं मिश्रं ततोऽचित्तमिति / एते त्रयोऽप्यादेशा अनादेशा एव / कालनियमस्यासम्भवात् / न खलु बिन्द्वपगमे-बुबुदापगमे तन्दुलपाकनिष्पत्तौ वा सर्वदा सर्वत्र प्रतिनियत एव कालो, येन प्रतिनियतकालसम्भविनो मिश्रत्वादूर्ध्वमचित्तत्वस्याप्यभिघीयमानस्य न व्यभिचारसम्भवः / कालनियमासम्भवश्वारूक्षेतरभाण्डपवनसम्भवाऽसम्भवचिरकालजलभिन्नत्वाऽभिन्नत्वादिभिः / इयमत्र भावना-स्नेहजलादिना यन्न भिन्नं भाण्डं तत् रूक्षमुच्यते / स्नेहादिना तु भिन्नं स्निग्धम् / तत्र रूक्षे भाण्डे तन्दुलोदके प्रक्षिप्यमाणे ये बिन्दवः पार्श्वेषु लग्नास्ते भाण्डस्य रूक्षतया झटित्येव शोषमुपयान्ति / स्निग्धे तु भाण्डे भाण्डस्य स्निग्धतया चिरकालम् / ततः प्रथमादेशवादिनां मते रूक्षे भाण्डे बिन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणप्रसङ्गः / स्निग्धे तु भाण्डे परमार्थतोऽचित्तस्यापि बिन्दूनामनपगमे मिश्रत्वेन सम्भावनया न ग्रहणमिति / तथा बुबुदा अपि प्रचुरखरपवनसम्पर्कतो झटिति विनाशमुपगच्छन्ति / प्रचुरखरपवनसम्पर्काभावे तु चिरमप्यवतिष्ठन्ते / ततो द्वितोयादेशवादिनामपि मते यदा खरप्रचुरपवनसम्पर्कतो झटिति विनाशमैयरुः बुबुदास्तदा परमार्थतो मिश्रस्यापि तन्दुलोदकस्याचित्तत्वेन सम्भावनया ग्रहणप्रसङ्गः / यदा तु खरप्रचुरपवनसम्पर्काभावे चिरकालमप्यवतिष्ठन्ते बुबुदास्तदा परमार्थतोऽचित्तीभूतस्यापि तन्दुलोदकस्य बुद्बुदर्शनतो मिश्रत्वशङ्कायां न ग्रहणमिति / येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थं पलोचितवन्तः / तन्दुलानां चिरकालपानोयभिन्नाभिन्नत्वेन पाकस्यानियतकालत्वात् / तथाहि-ये चिरकालसलिलभिन्नास्तन्दुला न च नवीना इन्धनादिसामग्री च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते