________________ मिश्रग्रहणप्रायश्चित्तम् उत्स्वेदिम, संस्वेदिम, तन्दुलोदकं, तिलोदकं, तुषोदकं, यवोदकम् , आयाम, सौवीरं, शुद्धविकटम् / तत्रोत्स्वेदिम-पिष्टोत्स्वेदनार्थमुदकं पिष्टभृतहस्तादिक्षालनजलं वा, संस्वेदिमं-येनारणिकादिपर्णाद्युत्काल्य शीतोदकेन सिच्यते / चाउलोदकं-तन्दुलधावनोदकं, तिलोदकं-महाराष्ट्रादिषु निस्त्वगचित्ततिलधावनजलम् / तुषोदकः-व्रीह्यादिधावनं, यवोदकं-यवधावनम् , आयामम्-अवस्रावणं, सौवीरंकाञ्जिकं, शुद्धविकटम्-उष्णोदकम् उवृत्तत्रिदण्डमेव नापरं तस्य मिश्रत्वात् / एतेषां च पानीयानां मध्ये कालिजकमेव पूर्व साधुभिर्ग्राह्यं तदभावेऽपरपानीयग्रहणानुज्ञाप्रतिपादनात् / तथा चोक्तं निशीथपीठे'कांजिअआयामासइ संसट् ठुसुणोदगेसु वा असती। फासुअमुदगं तसजढं तस्सऽसति तसेहिं जं रहिअं'। ___ अस्या चूर्णिः-पूव्वं ताव कंजिअं गिण्हति / कंजिअं देसीभासाए आरनालं भण्णति / आयामम् अवसामणम् / एतेसिं असतीए संसठुसुणोदगं गिण्हति / गवगरसभायणनिकेअणं जं तं संसट सुणोदगं भण्णति / अहवा कोसलविसयादिसु सल्लोअणो विणस्सणभया सीतोदगे छम्मति तम्मि अ ओअणे भुत्ते अंबोभूअं तं जइ अतसागं ता धिप्पति / एवं वा संसद् ठुसुणोदगं / एतेसि असतीए जं वप्पादिसु फासुगमुदगं तं तसजढं घिप्पति / ' तस्सासति 'त्ति / फासुअ अतसागस्स असति फासुग सतसगिं धमकरका दिपरिपूअं धिप्पति / सव्वहा फासुगासति सचित्त जं तसेहिं रहिअंति / अतः काजिकजलाद्यलाभे उत्स्वेदिमादीनि पानकानि गृह्यन्ते / तान्यपि कानिचिन्मिश्राणि भवन्ति तानि न कल्पन्त इति तद्विचारं दर्शयन्नाह - पढमुस्सेइममुदयं न कप्पई कप्पई उ केसिपि / तन्न जुज्जइ जम्हा मीसं उसिणंपि जा दंडो // 170 // व्याख्या-यत्र शीतोदके उत्स्विन्नं क्षिप्यते तदुदकम् उत्स्वेदिमं / यथा-मरहट्ठदेशे दीवगा उत्स्वेदिताः शीतोदके क्षिप्यन्ते तदुदकमुत्स्वेदिमम् / ते च दीवगादय उत्स्वेदिता एकस्मिन् द्वयोस्त्रिषु वा पानीयेषु क्षिप्यमाणा निर्वलन्ते / तत्र द्वितीयतृतीयपानीये सर्वेषामेवाचार्याणां मतेनाऽकल्प्ये एव / यत् प्रथममुत्स्वेदिममुदकं तदपि न कल्पते / केषाश्चित् पुनराचार्याा मतेन तत्कल्पते / तन्न युज्यते, कस्मात् ? यस्मादुष्णमपि-उत्कालितमपि उदकं यावद्दण्डोऽत्र जातावेकवचनं ततोऽयमर्थः / यावत् त्रयो दण्डा-उत्काला न जायन्ते तावन्मिनं भवति / तथाहि-प्रथमे दण्डे जायमाने किञ्चित् परिणमति किश्चन्नेति मिश्र, द्वितीये प्रभूतं परिणमति स्तोकमवतिष्ठते, तृतीये तु सर्वमप्यचित्तं भवति / ततोऽनु. वृत्तेषु त्रिषु दण्डेषु उष्णोदकं मिश्रमेव सम्भवति / यद्येवमुष्णोदकमपि मिश्रं भवति तर्हि कथं तेषु दीवगादिषु उत्स्वेदितेषु क्षिप्तेषु तत्प्रथमोदकमचित्तं भविष्यतीत्यर्थः / एवं संस्वेदिममपि किञ्चिन्मिनं भवति / यथा संस्विन्नारणिकादिपत्राणि शीतोदकेन सिच्यन्ते / तत्र प्रथमद्वितीयपानीये प्रासुके भवतः / तृतीयचतुर्थपानके तु मिश्रे स्याताम् / तथा तन्दुलोदकमपि मिश्रं भवति / तदुपदर्शनपूर्वकं मिश्रग्रहणप्रायश्चित्तमाहपढमबितिचाउलोदगि अहुणाधोअम्मि मीसगंति लहू / लहुगसचित्ते तुरिए तइएवि परे चिरकएबि / / 12