________________ 364 वर्ण, जाति और धर्म वर्णमीमांसा प्रजापतियः प्रथमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः। प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विवदे विदांवरः // 2 // प्रजाके जीनेकी इच्छा रखनेवाले प्रजापति आदिनाथने सर्व प्रथम प्रजाको कृषि आदि कर्मका उपदेश दिया। उसके बाद तत्त्वके जानकार और अद्भुत उदयवाले विद्वानोंमें श्रेष्ठ उन्होंने ममताका त्यागकर वैराग्य धारण किया // 2 // -बृहत्स्वयंभूस्तोत्र आदिनाथस्तुति अथावनीन्द्रः स महासभायां प्रकाशयन् धर्मकथापुराणम् / मिथ्यामहामोहमलीमसानां चित्तप्रसादार्थमिदं जगाद् // 1 // अष्टक एवान यदि प्रजानां कथं पुनर्जातिचतुष्प्रभेदः प्रमाणदृष्टान्तनयप्रवादैः परीचयमाणो विघटामुपैति // 2 // चत्वार एकस्य पितुः सुताश्चेत्तेषां सुतानां खलु जातिरेका / एवं प्रजानां च पितैक एंव पित्रकभावाच्च न जातिभेदाः // 3 // फलान्यथोदुम्बरवृक्षजातेर्यथाग्रमध्यान्तभवानि यानि / रूपाक्षतिस्पर्शसमानि तानि तथैकतो जातिरपि प्रचिन्त्या // 4 // ये कौशिकाः काश्यपगोतमाश्च कौडिन्यमाण्डव्यवशिष्ठगोत्राः / आत्रेयकौत्साङ्गिरसाः सगा- मोद्गल्यकात्यायनभार्गवाश्च // 5 // गोत्राणि नानाविधजातयश्च मातृस्नुषामैथुनपुत्रभार्याः / वैवाहिकं कर्म च वर्णभेदः सर्वाणि वैक्यानि भवन्ति तेषाम् // 6 // न ब्राह्मणाश्चन्द्रमरीचिशुभ्रा न क्षत्रियाः किंशुकपुष्पगौराः / न चेह वैश्या हरितालतुल्याः शूद्रा न चाङ्गारसमानवर्णाः // 7 // पादप्रचारैस्तनुवर्णकेशैः सुखेन दुःखेन च शोणितेन / त्वग्मांसमेदोस्थिरसैः समानाश्चतुःप्रभेदाश्च कथं भवन्ति / / 8 / / कृतं युगे नास्ति च वर्णभेदस्त्रेताप्रवृत्तावथवाथ भृत्यन् / आभ्यां युगाभ्यां च निकृष्टभावाद्यवापरं वर्णकुलाकुलं तत् // 6 //