________________ 10 વિરાવલી नाणम्मि दंसणग्मि अ, तव-विणए निच्चकालमुज्जुतं / अजं नंदिलखमणं, सिरसा वंदे पसन्नमणं / / 5 / / वडउ वायगवंसो जसवंसो अजानागहत्थीणं / वागरण-करण-भंगिअ-कम्मप्पयडीपहाणाणं / / 6 / / जचंजणधाउसमप्पहाण मुद्दिअकु वलयनिहाणं / वडउ * वायगवंसो रेवइनक्खत्तनामाणं / / 7 / / अयलपुरा णिक्खंते कालिअसुअ-आणुओगिए धीरे / बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते / / 8 / / जेसि इमो अणुओंगो पयरइ महुराओ(अजावि) अड्डभरहम्मि | बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए / / 9 / / आर्यमहागिरीणां जिनकल्पितुलनां कुर्वतां बहुलाख्यो विनेयवरो जिनकल्पितुलनामकरोत् / बलिस्सहश्च पश्चात् स्थविकल्पमभजत् / बलिस्सहशिष्याः स्वात्याचार्याः श्रुतसागरपारगास्तत्त्वार्थसूत्राख्यं शास्त्र विहितवन्तः / तेषां शिष्यैरार्यश्यामैः प्रज्ञापना प्ररूपिता / श्यामार्यशिष्याः स्थविराः शाण्डिल्याचार्याः श्रुतसागरपारगा अभवन् / तेषां शाण्डिल्याचार्याणां आर्यजीतधरा-ऽऽर्यसमुद्राख्यौ द्वौ शिष्यावभूताम् / आर्यसमुद्रस्याऽऽर्यमडनामानः प्रभावकाः शिष्या जाताः / आर्यमंगूनां चाऽऽर्यनंदिलाख्याः शिष्या बभूवुः / आर्यनंदिलानां चाऽऽर्यनागहस्तिनः शिष्या बभूवुः / आर्यनागहस्तिनां चाऽऽयरेवतीनक्षत्राख्याः शिष्या अभवन् / आयरवतीनक्षत्राणां आर्यसिंहाख्याः शिष्या अभवन् / ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभवन् / तेषामार्यसिंहानां स्थविराणां मधुमित्राऽऽर्यस्कंदिलाचार्यनामानौ द्वौ शिष्यावभूताम् / आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीवविद्वांसः प्रभावकाश्चाभवन् / तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम्, एकादशांगोपरि चाऽऽर्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि / यदुक्तं तद्रचिताचाराङ्गविवरणान्ते यथा