________________ રયવિરાવલી. थेरस्स महुमित्तस्य रोहे. हिं. तिपचनाणवता / मुणिगणविवं दिएहिं बवगयरागाइदो से हिं / / 1 / / बंभद्दीवियसाहामउडे हिं गंधहस्थिविबु हेहिं / ' विवरणमे यं रइयं दोसयवासे सु विक्कमओ / / 2 / / आर्यस्कान्दिलाचार्यसम्बन्धश्चैवम्-उत्तरमथरायां मेघरथामिधः परमः श्रमणोपासको जिनाज्ञाप्रतिपालको द्विजोऽभवत् / तस्य त्यसेनाऽभिधा सुशीला भार्याऽऽसीत् / तयोः सोमरथाभिधः सोमस्वप्नसूचितः सुतो बभूव ! अर्थकदा ते ब्रह्मद्रीपिकशाग्योपलक्षिताः सिंहाचार्या विहारं कुर्वन्तः क्रमेणोत्तरमथुरोद्याने समागताः / तेषां धर्मदेशनां निशम्य प्राप्तवैराग्येण सोमरथेन चारित्रं गृहीतम् / इतोऽतीवभयंकरां द्वादशाब्दिका दुष्कालो भरतार्दै संजातः अतोऽहन्मार्गानुसारिणः केचन भिक्षयो भिक्षामलममाना गृहीतानशना वैभार-कुमारगिर्यादिषु संलेखनया स्वर्जग्मुः / पूर्वसंकलितान्येकादशांगानि जिनप्रवचनाधारभूतानि ‘नष्टप्रायाणि संजातानि / दर्भिक्षान्ते च विक्रमार्क स्यैकशताधिकत्रिपंचाशत्संवत्सरे स्थविरायरकंदिलाचार्यैरुत्तरमथुराया जैनभिक्षूणां संघो मेलितः एकशताधिक पंचविंशतिजैनभिक्षवः स्थविरकल्पानुयायिनो मधुमित्र-गन्धहस्त्यादयः संमिलिताः / सर्वेषां सावशेषमुखपाठान् मेलयित्वाऽऽर्यस्कंदिलैगंधहस्त्याद्यनुमतैरेकादशांगी पुनर्ग्रथिता / स्वल्पमतिभिक्षूणामुपकारार्थं चाऽऽर्यस्कंदिलस्थविरोत्तंसैः प्रेरिता गंधहस्तिन एकादशांगानां विवरणानि भद्रबाहुरचामिविहितनिर्युक्त्यनुसारेण चक्रुः / ततः प्रभृति च प्रवचनमेतत् सकलमपि माथुरीवाचनया भारते प्रसिद्धं बभूव / मथुरानिवासिना श्रमणोपासकवरेणोशवंशविभूषणेन पोलाकाभिधेन तत् सकलमगि प्रवचनं गन्धहरितकृतविवरणोपेतं तालपत्रादिपु लेखयित्वा भिक्षुभ्यः स्वाध्यायार्थं समर्पितम् / एवं श्रीजिनप्रवचनप्रभावनां विधायाऽऽर्यस्कंदिलस्थविरा द्वयधिकद्विशतवक्रमीय संवत्सरे मथुरायामेव कृताशनाः स्वर्गं प्राप्ताः / इतिश्रीस्कन्दिलाचार्यसम्बन्धः सम्पूर्णः / / // इति श्रीस्कन्द्रिलाचार्यशिष्यलेशश्रीहिमवदाचार्यनिर्मिता स्थविरालिका समाप्ता / /