________________ सूत्र 8] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 65 शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणिषु मासा भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतदृढायुष्यकर्मशेषाद पसृती मृगः पुरुषाकाराच्च, चैतस्तु हन्तुरतिक्लिष्टमेवाती व्यापादकम् / तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमुदिते विकल्पंप्रये प्रमत्तयोगत्वं, द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं, न प्रथमस्येति / अपरे तु प्रमादमष्टविधं वर्णयन्ति " अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च / रागो द्वेषोऽनवस्थानं, स्मृतेधर्मेष्वनादरः // १॥"-अनु० अपरे तु अवते-"अप्रयत्नासमितः प्रमत्तः।" प्रयत्नो द्विविधः-जीवाजीवपदार्थ परिज्ञानमीर्यादिसमितिपञ्चकं चेति / एतद्विरहितः प्रमत्त उच्यते / प्रमत्तस्य लक्षणा मुत्रकारेण प्रमत्तयोगादित्येतदभिदधता सर्वमेवैतत् प्रमत्तलक्षणं समन्तरम् ग्राहीति / स्यादेतत् , अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणस्वात् / मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् , सर्व चैतदुपपन्नं तृतीये / द्वितीयविकल्पे तु नास्त्येतत् समस्तम् , अतः कथं तत्र हिंसकत्वम् 1 / एतदेव च प्राणातिपातलक्षणम् / अपर स्पष्टतरं प्रपश्चितम् ___"प्राणातिपातः सश्चिन्त्य, परस्याभ्रान्तमारणं" इति // द्विविधं मारणं सश्चिन्त्यासश्चिन्त्य च / सञ्चिन्त्यापि द्विविधं भ्रान्तस्याभ्रान्तस्य च / अभ्रान्तस्यापि द्विविधं आत्मनः परस्य चेति / अतो विशेषणत्रयमुपादीयते / एतदुक्तं भवतियदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव मारयति नान्यं भ्रमित्वा / इयता प्राणातिपातो भवति / यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो वेति, सोऽप्यवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति / ततश्च असश्चिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः / प्राणय वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् सममारणे बौद्धीयः तिपातयति-विनाशयति जातस्य स्वरससविरोधादनागतस्योत्पत्तिं प्रतिपूर्वपक्षः बध्नातीति / जीवितेन्द्रियं वा प्राणाः / कायस्यैव च सेन्द्रियस्य सज्जीवितेन्द्रियं व्यपदिश्यते, न त्वन्यस्यात्मनोऽभावात् / न यात्मनः किश्चित् प्रतिपादकं प्रमाणमस्तीति / अन्यस्त्वाह 1 'तथाऽन्यस्या-' इति ड-पाठः / 2 . अपरेण ' इति स-पाठः। 3 'यदा' इति उ-पाठः /