________________ सूत्र 6 ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 203 . भा०--सप्तसप्तमिकायाः प्रतिमाश्चतस्रः भद्रोत्तरमाचाम्लवर्धमानं सर्वतोभद्रमित्येवमादि // टी०-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति / तत्र सप्तपप्तमिका प्रथमायामहोरात्राणामेकोनपश्चाशद् दिवसा इत्यर्थः / अष्टाष्टकाः। अष्टाष्टमिकायामहोरात्राणां चतुःषष्टिदिनानीति / तथा नवनवमिकायामे काशीतिरहोरात्राणि / देशदशमिकायां दिवसशतम् / सर्वत्र प्रथमा अहोरात्रसङ्ख्यासु एकैकभिक्षाशित्वम् / सर्वत्रेति चतसृष्वपि प्रतिमासु प्रथमे सप्तमके प्रथमेऽष्टके प्रथमे नवके प्रथमे च दशके प्रतिदिनमे किमिक्षाशिवं द्वितीये सप्त केऽष्ट के नवके दशके च भिक्षाद्वयाशित्वम्, एवं शेषेष्वपि सप्तकादिवेकैकभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्तभिक्षा अष्टमेऽष्टौ भिक्षा नवमे नव मिक्षा दशमे दशभिक्षाशिन्वमिति // ___ तथाऽन्यत् तपः सर्वतोभद्रमिति द्विविधं तत्-क्षुलुकसर्वतोभद्रं महासर्वतोभद्रं चेति / सत्र प्रथमस्य प्रस्तारविधिर्भण्यते-पञ्च गृहाणि कृत्वा तिर्यगूर्व च। ततो रेचना तपसः कार्या। चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपङ्क्तौ, द्वितीयस्यां च दशमद्वादशचतुर्थषष्ठाष्टमानि, तृतीयायां षष्ठाष्टमदशमद्वादशचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्यो, पञ्चम्यामष्टमदशमद्वादशचतुर्थषष्ठानि / पारणादिवसाः पञ्चविंशतिः। कालो मासत्रयं दिनानि दश / एष एव चतुर्गुणो वर्षमेकं मासो दश दिनानीति // 1 'सर्वतोभद्रं भद्रोत्तर० ' इति ग-पाठः / 2 सप्तसप्तमिकायाः स्वरूपं अन्तकृद्दशासु यथा "पढमे सत्तए एकेक भोयणस्स दतिं पडिगाहेह, एकेक पाणयस्स, एवं जाव सत्तमे सत्त दत्तीउ भोयणस्स, सत्त पाणयस्स..." ... [प्रथमे सप्तके एकैको भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य, एवं यावत् सप्तमे सप्त दत्तयो भोजनस्य, सप्त पानकस्य.... व्यवहारभाष्ये त्वेवम्" अहवा एक्कक्कियं दत्ति, जा सत्तेकेकस्स सत्तए। ___ आएसो अस्थि एसो वि............॥" [अथवा एकैका दत्तिं यावत् सप्त एकैकस्मिन् सप्तके। आदेशोऽस्ति एषोऽपि............] 3 'दशमिकाया' इति च-पाठः। 4 क्षुल्लकसर्वतोभद्रस्य प्रथमो विकल्पः