________________ प्रस्तावना तत्वार्थसूत्र तत्त्वार्थसूत्रे स्वोपज्ञे भाष्ये च कतिपया उल्लेखाः सन्ति ये श्वेताम्बरीयागमादिषु ग्रन्थेषु * दिगम्बरीयप्रधानभूतेषु वा न दृष्टिपथमवतरन्ति / ते चैमे (1) तत्त्वार्थसूत्रे (1-4) तत्त्वसप्तकस्य निर्देशः। जैनसम्प्रदायद्वये तु पुण्यपापपूर्वक सप्तकमिदमर्थात् नैवतत्त्वनिरूपणम् / एवं सति विरोधप्रसङ्ग इति चेन्न, 'शुभः पुण्यस्य' 'अशुभः पापस्य' इति सूत्रद्वयेन पुण्यपापयोस्तत्त्वरूपेण सूत्रकारैः स्वीकृतिः / किञ्च पुण्यपापयोः फलस्वातन्त्र्यमपि प्रदर्शितं 'सम्यक्त्वहास्यरतिपुंवेदशुभायुर्नामगोत्राणि पुण्यम्' इति सूत्रग्रथनेन / ननु प्रज्ञापना-स्थानाङ्गा-ऽनुयोगद्वारेषु जीवाजीवेति तत्त्वद्वयं निर्दिष्टम् / किमनेनास्त्रवादेरपलापो वक्तुं न शक्यते ? नैव, किन्तु सत्यमेतद् यदुत पुण्यपापयोः स्वतन्त्रतत्त्वरूपेणाङ्गीकृतिर्न कृता वाचकमुख्यैः, एकनिष्ठदृष्टया प्ररूपितं तत्त्वसप्तकम् / (2) अस्मिन् ग्रन्थे (1-34) नयानां प्रथमं पञ्चविधता प्रदर्शिता / तदनन्तरं (1-35) पञ्चमस्य त्रैविध्य प्रतिपादितम् / तत्र साम्प्रतमित्येकस्य नयस्य संज्ञा समस्ति साऽन्यत्र कुत्रापि न दृश्यते / एवं नयनिरूपणे वैशिष्टयं वर्तते / नैगमस्य सङ्ग्रहव्यवहारयोरन्तर्भावं कृत्वा श्रीसिद्धसेनदिवाकरैर्नयस्य सङ्ख्या षड् निर्धारिता / किञ्च विशेषावश्यकभाष्ये (गा. 2264) नयपश्चकप्रपञ्चो विद्यते स औमास्वातिकपरम्पराप्रतिविम्बरूप इत्यनुमीयते / अनुयोगद्वारे वसतिप्रदेशविषयकनयवर्णनावसरे शब्दसमभिरुदैवम्भूतानां गणनैकरूपेण कृता। 1 एतदुल्लेखसमर्थनाय कतिपयान्यवतरणादीनि दीयन्ते, यथाहि (अ.) "अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिज्जरकिरियाहिगरणबंधप्पमोक्खकुसला" इत्यादि श्रावकज्ञानसमृद्धिवर्णनं भगवत्याम् / (आ) उत्तराध्ययनसूत्रे मोक्षमार्गगतिसझकेऽध्ययने निम्मलिखिता गाथा "जीवाजीवा य बंधो य, पुण्णं पावासवो तहा। संवरो निज्जरा मोक्खो, संते ए तहिया नव // 14 // " . (1) वाचकवर्यप्रणीतायां प्रशमरतौ १९०तमपद्यादारभ्य २२१तमपर्यन्तानि पद्यानि / (ई) श्रीदेवेन्द्रसूरिविनिर्मितधर्मरत्नप्रकरणवृत्त्युद्धृता 107 गाथाः / " २“अस्यां प्रज्ञापनायां षदात्रिंशत् पदानि, तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरमपरिणामसज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना / प्रयोगपदे क्रियापदे चाभ्रवस्य 'कायवाङ्मनःकर्म योग आश्रव' इति वचनात् / कर्मप्रकृतिपदे बन्धस्य प्ररूपणा / समुद्रातपदे केवलिसमुद्रातप्ररूपणायां संवरनिर्जरामोक्षाणां त्रयाणाम् , शेषेषु तु स्थानादिषु पदेषु क्वचित् कस्यचित्" इति प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरयः।। ___3 इदमनुसृत्य कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभिस्त्रिषटिशलाकापुरुषचरिते श्रीदेवानन्दसूरिभिः समयसारे, न्यायतीर्थन्यायविशारदोपाध्यायश्रीमङ्गलविजयै नतत्त्वप्रदीपे च तत्त्वसप्तकविरचनाऽकारीति प्रतिभाति। 4 सज्ञाऽभिनवत्वे समीक्ष्यतां पञ्चमे सूत्रे निक्षेपस्थाने न्यासपदप्रयोगः।