________________ प्रस्तावना भाष्यं स्वोपज्ञं समस्ति न वेति प्रश्न उत्तरतो विचारयिष्यते / अत्र तावत् तदङ्ग समीक्ष्यते। एकत्रिंशत्सम्बन्धकारिका दशमाध्यायस्य सप्तमसूत्रस्य विवरणात्मिका द्वात्रिंशत् श्लोकाः प्रशस्तिश्च भाष्यस्याङ्गानीति ज्ञायते / यद्येषां सूत्ररूपेण गुम्फितेन मूलग्रन्थेन सहाङ्गाङ्गिभावरूपः पक्षः कक्षीक्रियते तर्हि भाष्ये तद्विवरणं किं नास्तीति प्रश्नस्य सन्तोषकारि समाधानं दुःशकम् / श्वेताम्बरटीकाकारादिभिर्भाष्यस्य स्वोपज्ञत्वं स्वीकृतं, दिगम्बरैस्तु अनादृतम् / एवं सत्यपि मुद्रिततत्त्वार्थराजवार्तिकप्रान्ते श्रीअमृतचन्द्रकृते तत्त्वार्थसारे च पूर्वोक्ता द्वात्रिंशत् श्लोका अङ्कादिरूपस्वल्पपरिवर्तनपूर्वका दृष्टिपथमायन्ति / अष्टमः श्लोक औमास्वातिक इति मत्वा श्रीहरिभद्रमूरिवरैः शास्त्रवातासमुच्चयसञ्ज्ञायां स्वकीयकृतौ ६९३तमपद्यरूपेणोदधारि / सम्बन्धकारिकाणामकोनत्रिंशत्तमा तथैवोद्धृता श्रीमुनिचन्द्रसूरिभिर्धर्मविन्दुवृत्तौ / कचिर आह उक्तं चेत्यादि निर्देशपुरस्सरं तदुल्लेखरहितानि वा यानि कतिपयानि पद्यानि भाष्ये दृश्यन्ते तान्यपि भाषाशैलीसमानत्वाद् भाष्यकारस्यैव सम्भवेयुः / शैली-साम्प्रदायिकाभिनिवेशा-ऽर्थविकासरूपैत्रिभिदृष्टिबिन्दुभिः परीक्ष्यमाणयोः भाष्यसर्वार्थसिद्धयोर्भाध्यस्य प्राचीनता पोस्फुरीति / अतस्तुष्यतु दुर्जन इति न्यायेन यदि भाष्यस्य स्वोपज्ञता न स्वीक्रियते तद्यपि उपलब्धव्याख्यानिकाये भाष्यस्य सर्वोपरि प्राचीनतेति कथने न मनागपि सन्देहो निष्पक्षप्रतिभाशालिनां सम्भवति / ____ याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिशेखर-श्रीसिद्धसेनगणिवरप्रभृतिभिः समस्तैः श्वेताम्बरमुनिवर्यभारस्य स्वोपज्ञत्वं स्पष्टतयाऽङ्गीकृतमिति निर्विवादम् / प्रो. यकोबी-प्रो. विन्टनिस-पं. सुखलालाद्याधुनिकविद्वद्वरैरपि तथैव कृतम् / अनेन किं न फलति यदुतेदं मतं प्रामाणिकम् ? / भवतु, द्वे युक्ती अपि निर्दिश्यते / तावत् कतिपयासु सम्बन्धकारिकासु भाष्येऽपि कुत्रचिदुपदेश्यामः वक्ष्यामि वक्ष्याम इति प्रतिज्ञाद्वारा ये विषयाः सूचितास्तेषां प्ररूपणं सूत्रेषु दृश्यते, न तु भाष्ये। अतोऽनुमीयते सूत्रभाष्ययोरेककर्तृत्वमर्थाद् भाष्यस्य स्वोपज्ञता वरीवति / अपरञ्च मूलकारव्याख्याकारयोर्यत्र भिन्नव्यक्तित्वं वर्तते तत्र प्रायः सूत्रपाठानां विसंवादिस्वरूपं तदर्थविषयकं विकल्पजालं सन्दिग्धत्वं सूत्रपाठभेदश्चेति दरीदृश्यते। निदर्शनार्थ समीक्ष्यतां सर्वार्थसिद्धिप्रमुखदिगम्बरटीकासाहित्यं श्रीवादरायणप्रणीतस्य ब्रह्मसूत्रस्य शारीरकसूत्रेत्यपराहस्य व्याख्यान वा। ईदृपरिस्थितेरभावो भाष्ये समर्थयति तत्स्वोपज्ञत्वमिति मे मतिः। सूत्रभाष्ययोर्वैशिष्टयम्-- 1 सन्तुल्यतामयं निम्नलिखितया श्रीऔपपातिकसूत्रगतया गाथया "बीआण पुणरवि अग्गिदइढाणं अंकुरुप्पत्तीण भवइ / एवामेव सिद्धाणं कम्मबीए दइढे पुनरपि जन्मुपत्ती न भवद // "