________________ जीवस्थानेषु बन्धोदयसत्तास्थानानि तद्भङ्गाश्च श्रीप्रज्ञप्तौ-ते गं भंते ? असन्निपंचिंदितिरिक्खजोणिया किं इथिवेयगा पुरिसवेयगा नपुसगवेयगा ? - नो इत्थिवेयगा नो पुरिसवेयगा नपुसगवेयगा” इति / एतसिद्धान्ताभिप्रायेण च श्रीमन्मलयगिरिपादः सप्ततिकायाः षड्त्रिंशत्तमगाथावृत्तौ पर्याप्तासंज्ञिनि नपुसकवेद एव दर्शितः, तत्राऽपि चूर्णिकारामिप्रायेण वेदत्रयम् , एवं सप्ततिकाभाष्यपञ्चपञ्चाशत्तमगाथावृत्तौ श्रीमेरुतुङ्गाचार्यैरपि / तेनाकारमात्रमङ्गी. कृत्य कार्मग्रन्थिकमताभिप्रायेण लब्धिपर्याप्तासंज्ञिनि वेदत्रयं संभवति, तथैव बहुभिर्वत्तिकारैः समर्थितत्वात् / चूर्णिकारास्तु विपाकोदयापेक्षया वेदत्रयमसंज्ञिनि लब्धिपर्याप्ते स्वीकुर्वन्ति, न पुनः केवलमाकारमात्रेणेति विशेषः / न पुनर्लब्ध्यपर्याप्तसंश्यसंज्ञिनोरपि। न च "चउ चउ पुमिथिवेए" इति पञ्चमसंग्रहवचनम् , "पुमत्थिवेए चरम चउरो॥” इति प्राचीनषडशीतिवचनम् , “थीणरपणिदि चरमाचउ' इति नव्यषडशीति वचनम् , इत्यादिवचनैस्तथा श्रीरामदेवगणिनैव प्राचीनषडशीतिदशमगाथाविवरणे जीवस्थानेषु मार्गणास्थानानि दर्शयता-"असणिअपजत्तगस्स उत्तरभेया। तं जहा ..........वेयतिगं ..... .... / सन्निपंचिंदियस्स अपज्जगस्स उत्तरभेया / तं जहा-गइ चउक्कं .....वेयतिगा”. इत्यादिना पर्याप्ता-ऽपर्याप्तसंज्ञिद्वया-ऽसंज्ञिद्वयलक्षणेषु चतुर्ध्वपि जीवस्थानेषु वेदत्रयं प्रतिपादितम् , अतः कथं लब्ध्यपर्याप्तसंझ्यसंज्ञिनोस्तन्निषिध्यते भवतेति वाच्यम् , अभिप्रायाऽपरिज्ञानात् , यतस्तत्र सर्वत्रा-ऽप्यपर्याप्तः करणेना-ऽपर्याप्तो विवक्षित इति न कश्चिदपि दोषः, भवत्वत्रा ऽपि करणा-ऽपर्याप्त इति चेत्, सत्यम् , तदेहाऽप्यदोष एव, किन्तु सो-ऽत्र विवक्षितो नास्ति, यतो लन्ध्यपर्याप्तस्यैवा-ऽत्र विवक्षितत्वेन सप्तस्वप्यपर्याप्तेषु प्रथमगुणस्थानादिकमेव दर्शितम् , अन्यथा द्विती. यगुणस्थानादिकमपि दर्शितं स्यात् / ननु यथा भाववेदमाश्रित्य सप्ततिकाभाष्य-५६-५७ तमगाथावृत्तौ मेरुतुङ्गाचायैर्विपाकोदयतो देवनारकाणां वेदत्रयस्य संभवो दर्शितः तथा च तद्ग्रन्थः-"यद्यप्याकृत्या देवानां क्लीबवेदो नारकाणां च पुस्त्रीवेदौ न स्तस्तथा-ऽपि विपाकोदयतो वेदत्रयमपि संभवति" इति / तथा लब्ध्या-ऽपर्याप्तयोः संश्यसंज्ञिनोरपि स्यादिति चेत् , न, तत्रैव सप्ततिकाभाष्य 55 तमगाथावृत्तौ तैरेव मेरुतुङ्गाचार्य ब्धिपर्याप्त 'यतिरिक्तानां त्रयोदशानामपि जीवभेदानां केवलस्य नपुसकवेदस्यैवोदयस्य प्रतिपादनात् , एवमन्य * त्रा-ऽपि / अन्यथा यथा “उदयविगप्पा जे जे उदीरणाए वि होंति ते ते उ / अंतमुहुत्तिय उदया समयादारम भंगा य / / 3 // " इति पञ्चसंग्रहसत्कसप्ततिकागाथास्वोपज्ञवृत्तौ-"युग्मेन वेदेन वा-ऽवश्यमन्तमुहूर्ता. दरतः परावर्तितव्यम्" (पञ्चसंग्रहप्रथममागपत्र-२४३-१) इति स्ववचनमादृत्य पग्रञ्चसंहकारीवस्थानेषु बन्धहेतून दर्शयद्भिश्चतुर्दशस्वपि जीवस्थानेषु वेदत्रयं प्रतिपादितम् , (पञ्चसंग्रहप्रथमभागपत्र-१७९-१८२) तथा चूर्णिकार-भाष्यवृत्तिकारादिभिरपि चतुर्दशस्वपि जीवमेदेषु वेदत्रयम्य विधानं कृतं भवेत , तल्यन्यायत्वात,न च तैस्तथा विहितम, एवं प्रस्ततग्रन्थे-ऽपि, तथा श्रीमन्मलयगिरिपादेरपि उदय विगप्पा.....” (पञ्चसंग्रहसप्ततिका 33 गाथा प्रथमभागपत्र-२४२-२) इति गाथावृत्तौ "युग्मेन वेदेन वाऽवश्यं मुहुत्तादारतः परावनितव्यम्" इति पञ्चसंग्रहकारवचनं पुरस्कृत्य भावनाया विहितत्वेऽपि जीवभेदेषु बन्धनिरूपणावसरे तदनादृतम्" उक्तं च तैम्तत्र-"इह संज्ञिपञ्चेन्द्रियव्यतिरिक्ताः शेषाः सर्वे ऽपि संसारिणो जीवाः परमार्थतो नपुंसकाः, केवलमसंज्ञिपञ्चेन्द्रियाः स्त्रीपुलिङ्गाकारमात्रमधिकृत्य पुस्त्रीवेदे प्राप्यन्ते” (पञ्चसंग्रह प्रथममागपत्र 183-) इति / ततो वेदत्रयपरावृत्तिमतमप्रधानं प्रतिभाति / किञ्च लब्ध्यपर्याप्तः सर्वोऽपि नपुंसक एवेति हेतोरत्र लब्ध्यपर्याप्तसंश्यसंज्ञिनोर्वेदत्रयस्य यत्प्रतिपादनं तद् विचारणीयम् /