________________ मङ्गलादिकं जीवस्थानस्वरूपञ्च [3 नित्यानित्यपक्षं समर्थयते स्म / एकान्तनित्यानित्यपक्षे हि क्त्वाप्रत्ययानुपपत्तिः / एकान्तनित्यतायां कर्तुं प्रणमनक्रियास्वभावात , जीवस्थानादिकर्मकवचनक्रियाया अभावाद् , एकान्ताऽनित्यतायां चान्यः प्रणमनक्रियायाः कर्ताऽपरो वचनक्रियायाः कर्त्तति विभिन्नकत कत्वात् प्रत्ययानुत्पत्तिः // 2 // तत्र जीवस्थानानां संख्यावछिन्न स्वरूपं निरूपयन्नाह-- इह सुहुमवायरंगिदिवितिचउअसन्निसन्निपंवेदी / अपनत्तापजत्ता कमेण चउदम जियाणा / / 3 // (यशो०) इह-जगति प्रवचने वा सूक्ष्मनामकर्मोदयात् सूक्ष्माः सर्वलोकव्यापिनो, बादरनामकर्मोदयाद्रादरा लोकदेशवर्तिन एकेन्द्रियाः / सूचकत्वात्सूत्रस्य द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः / "असन्निसन्ना"ति, संज्ञा-विज्ञानं सा हेतुवाददीर्घकालदृष्टिवादभेदात् त्रिधा / तत्र हेतोर्वादस्तेन संज्ञा / द्वित्रिचतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां मन्तव्या। ते हि हेतुवादेन एवं वक्तु शक्यन्त एव, संज्ञिन एते, आतपादिभ्यच्छ.याद्याश्रयणादाहारादिनिमित्त वेष्टान्वितत्वाच्च / एतदपेक्षया पृथिव्यादयोऽमंज्ञिना, या तु सिद्धान्ते पृथिव्यादीनामपि आहारादिभेदादशविधा संज्ञा प्रतिपादिता सा तेषामतिशयेनाव्यक्तेति न विवक्षिता 1 / दीर्घकालिकी संज्ञा साभिधीयते यस्यां सत्यां कालत्रये-ऽपि इदमकार्पमिदं करोमि इदं करिष्यामीति विमश्यते / एतदपेक्षयामनोलब्ध्या वन्ध्याः सर्वेऽप्यसंज्ञिनः / एषा च न हेतुवादेन प्रतीयते,बालानामपि सुप्रतीतत्वात् / दृष्टिः सम्यग्दर्शनं तस्य वदनं *(वादस्) तेन संज्ञा सम्यक्वविमलीकृतज्ञानरूपा / एतदपेक्षया संज्ञिपञ्वेन्द्रिया अपि मिथ्यादृशोऽसंज्ञिन उच्यन्ते / समये तु यत्र क्वचित्संश्यसंज्ञिव्यवहारः, स समस्तोऽपि दीर्घकालिकसंज्ञाभावाभावावलम्ब्येत्यत्रापि दीर्घकालिकसंज्ञावन्तः संज्ञिनस्तद्विपरीतास्त्वसंज्ञिनः,पञ्च न्द्रियाः। "अपजत्तापजते" तिपर्याप्तापर्याप्तव्यवहारस्य पर्याप्तिपरिज्ञानपुरस्सरत्वादादौ पर्याप्तः संक्षेपतः स्वरूपं सोपयोगित्वाद् भेदकालस्वामिनश्वोच्यन्ते / तत्र पर्याप्ति-राहारप्रवृत्तियोग्यपुद्गलदलिकोपादनपरिणामनकारणं जीवस्य पुद्गलोपचयः शक्तिविशेष इति स्वरूपम् / यया बाह्यमाहारमाहृत्य खलरसरूपतया परिणामयति जन्तुः सा शक्तिराहारपर्याप्तेः / यया रसीभूतमाहारं रसासृक्मासमेदोस्थिमञ्जाशुक्ररूपसप्तधातुमयौदारिकशरीररूपतया वैक्रियाहारकयोोग्यानि च द्रव्यान्यादाय वैक्रियाहारकरूपतया च परिणति नयति, सा सरीरपर्याप्तिः। इयं च न शरीरनामकर्मण्यन्तर्भवति, साध्यभेदात् / शरीरनाम्नो हि कर्मणो जीवेन गृहीतानां पुद्गलानामौदारिकादिदेहत्वेन परिणतिः साध्या, शरीरपर्याप्तेस्त्वारब्धशरीरस्य परिसमाप्तिरिति / ययेन्द्रिययोग्यधातुभूतमाहारमिन्द्रियतयापरिणाममुपनयति, सेन्द्रियपर्याप्तिः / ययोच्छ्वासयोग्यं वर्गणाद्रव्यं स्वीकृत्योच्छ्वासतया परि * ( ) एतच्चिन्हान्तर्गतः पाठः प्रक्षिप्तो द्रष्टव्यः / एवमग्रेऽपि /