________________ परोक्षास्थाने आविधानम्] मध्यमवृत्त्यवचूरिसंवलितम् [ 36 णार्चयति / १४साम्ना आचरति / १"पाशं पाशाद्वा विमोचयति इति वाक्यम, विपाशयति इति प्रयोगः / १४एवं सान्त्वयति / १६आदिशब्दात् क्षीरस्य पानं, देवस्य यागं, धान्यस्य क्रयं, धनस्य त्यागम्, ओदनस्य पाकं करोत्यर्थे, तथा नलोपाख्यानं, कंसवधं, सीताहरणं, रामप्रव्रजनं, राजागमनं, मृगरमणम्, आरात्रिविवासमाचष्टेऽर्थे णिच् प्रत्ययो न भवति / इन्द्रियाणां जयम-इन्द्रियजयम, इन्द्रियजयं करोतीत्येवं सर्वत्र वाक्ये कृतेऽपि बहुलवचनान्न णिच् // 42 // . स्याऽश्व-तरेत-कलुक् / 3 / 4 / 45 // वृत्तिः-“श्वेताश्व, अश्वतर, गालोडित, आह्वरक इत्येषां णिज्योगे यथासंख्यमश्व, तर, इत, क इत्येषां लुक" स्यात्। श्वेतयति, अश्वयति, गालोडयति, “आह्वरयति // 45 // व्रताद् भुजि-तन्निवत्त्योः 3 / 4143 / / वृत्तिः-व्रतं = शास्त्रविहितो नियमः, व्रता. द्भोजने तन्निवृत्तौ च वर्तमानात्कृगाद्यर्थेषु “णिच् स्याद्, बहुलम्" ।पयो व्रतयति, सावद्यान्नं व्रतयति अववूरिः-श्वेतोऽश्वो यस्य स श्वेताश्व इति, श्वेतश्चासावश्वश्चेति वा कर्मधारयः, श्वेताश्वमाचष्टे, श्वेताश्वं वा करोति, अथवा श्वेताश्वेनाऽतिक्रामतीति वाक्येषु "णिज् बहुलम" ( इति सूत्रेण णिचि सति ) श्वेतयति / एवमश्वतरमाचष्टे करोति वा अश्वयति / गालोडितमाचष्टे करोति वा / आह्वरको देशविशेषः, आह्वरकमाचष्टे करोति वा / सर्वत्र "णिज्बहुलम्" इत्यनेन णिच् सिद्ध एव, परं लुगर्थ सूत्रमिदम् // 45 // // 43 // .. . अवचूरिः--१भोजननिवृत्तौ-भोजननिषेधे / रपय एव मया भोक्तव्यमिति व्रत करोति, व्रतं गृह्णाति वा इति वाक्यम्, पयो व्रतयति / सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति, गृह्णाति वा इति वाक्यम्, सावद्यान्नं व्रतयति इत्युदाहरणम् // 43 // सत्याथवेदस्याः / 3 / 4 / 44 // वृत्तिः- “सत्यार्थवेद" इत्येषां “णिच् संयोगे (-णिचि सति) 'आ' इत्यन्तादेश.'' स्यात् / 'सत्यापयति, अर्थापयति, वेदापयति / / 44 / / ___ धातोरनेकस्वरादाम् परोक्षायाः, कृम्व स्ति चानु तदन्तम् / 3 / 4 / 46 / / वृत्ति - अनेकस्वराद्धातोः परस्याः “परोक्षायाः स्थाने आम् इत्यादेशः स्यात्, आमन्ताच्च परे कृभ्वस्तयो धातवः परोक्षान्ता अनु = पश्चात् प्रयुज्यन्ते' / 'चकासाञ्चकार, चकासाम्बभूव , चकासामास; एवं लोलूयाञ्चक्रे लोलूयाम्बभूव, ( लोलूयामास ) / *अस्तेभू न भवति, विधानबलात् / अनेकस्वरादिति किम् ? उपपाच / उपसर्गस्य तु क्रियाविशेषकत्वाद् व्यवधायकत्वं नास्ति, तेन उक्षाम्प्रचक्रुः // 46 // अवचूरिः- सत्यमाचष्टे सत्यं करोति वा / एवमर्थमाचष्टे करोति वा / वेदमाचष्टे करोति वा / "णिज् बहुलम्०" ( 3 / 4 / 42 // इति ) णिच् / अत्रोदाहरणेषु "त्रन्त्यस्वरादेः' (74 / 43 ) इत्यनेनाऽऽकारस्य न लोपः, 'आ' इति विधानसामर्थ्यात् // 44 // श्वेताऽश्वा-ऽश्वतर-गालोडिजा-ऽऽह्वरक अवचूरिः- 'तदन्तम्' इति पदस्य 'परोक्षान्ता' *ननु “अस्तिब्रुवो वचावशिति' (4 / 4 / 1 ) इत्यनेनात्रास्ते: 'भू' इत्यादेशो भविष्यतीत्यामः परतः परोक्षान्तास्तेरनुविधानं निरर्थकमित्याह- अस्तेरित्यादि /