SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 28] श्रीसिद्धहेमशब्दानुशासने [अ०३ पा० 4 सू०८-१० धातोः कण्डवादेर्यक् / 3 / 4 / 8 / / वृत्तिः-कण्ड्वादिधातुभ्यः “स्वार्थे यक् प्रत्ययः" स्यात् / कण्डूयति, कण्डूयते; महीयते, मन्तूयति / धातोरिति किम् ? कण्डूः। धातुग्रहणमुत्तरार्थमिह सुखार्थे च / कण्डूग, गकारः फलवति "ईगितः" ( 3 / 3 / 65) इत्यात्मनेपदार्थः / / 8 / / अधिश्रयणं-चुल्युपरि स्थाल्यादिरोपणमादिर्येषां तृणकाष्ठक्षेपणादीनां-ते, तेषां क्रियान्तरविरोधिग्रामगमनादिभिरव्यवहितानां साकल्येन संपत्तिः-निष्पत्तिभृशत्वमुच्यते, फलातिरेको वा, कोऽर्थः ? अधिश्रयणादीनां यत् साध्यंफलं कर्तुविवक्षितं, तस्मात् अतिरेक:-आधिक्यम्, अत्यर्थता. इति यावत्, फलस्य समाप्तावपि क्रियाया अनुपरतिर्वा, स ईदृग् फलातिरेको भृशत्वमुच्यते / तथा प्रधानक्रियाया विक्लेदादेः क्रियान्तराऽव्यवधामेनावृत्तिराभीक्ष्ण्यमुच्यते // 9 // अट्यतिमूत्रिमूत्रिसूच्यशूर्णोः / 3 / 4 / 10 // वृत्तिः--"एभ्यो भृशाभीक्षण्यार्थवत्तिभ्यो यह" स्यात् / भृशं पुनः पुनर्वाऽटति-अटाट्यते, एवं इयर्ति ऋच्छति वा-अरायते, सोसूयते,मोमूत्र्यते सोसूच्यते, अश्नुते अश्नाति वा-अशाश्यते, २प्रोर्णोनूयते // 10 // ____ अवचूरिः--कण्डूग गात्रविघर्षणे, मही पूजायां वृद्धौ च, मन्तु रोषवैमनस्ययोः, “दीर्घश्च्वियङ्यक्क्येषु च" (4 // 3 // 108 ) इति दीर्घः / द्विविधाः कण्ड्वादयः, धातवो नामानि च; परमत्र प्रायेण धातवो गृह्यन्ते इत्युक्त “कण्ड्वादिधातुभ्यः" / कण्डूग्, महीङ्, हृणीङ्, वेङ्, लाङ्, डकार आत्मनेपदार्थः, मन्तु, वल्गु, असु, वेट्, ला, लिट्, लोट्, उरस्, उषस्, इरस, अस्, तिरस्, इयेस्, इमस्, पयस् संभूयस्, दुवस्, दुरज, भिषज, भिष्णुक, रेखा, लेखा, एला, वेला, केला, खेला, गोधा, मेधा, मगध, इरध, इषुध, कुषुम, सुख, दुःख, अगद, गद्गद, तरण, चरण, ( वरण ) उरण, तुरण, पुरण, चुरण, (वुरण् ) भरण, तन्तस्, (तम्पस् ) पम्पस्, अरर, समर, सपर इति कण्ड्वादिगणः // 8 // व्यञ्जनादेरेकस्वराद् भशा-ऽऽभीक्ष्ण्ये यङ वा / 3 / 4 / 9 / / वृत्तिः-"भृशाभीक्ष्ण्ये वर्तमानाद्धातोर्व्यजनादेरेकस्बराद्य प्रत्ययो वा" भवति / भृशं "पुनः पुनर्वा पचति-पापच्यते / धातोरित्येव-तेन सोपसर्गान्न यक - भृशं प्रात्ति। व्यञ्जनादेरिति किम? भृशमीक्षते / एकस्वरादिति किम् ? भृशं चकास्ति / भृशाभीक्ष्ण्य इति किम् ? पचति / वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् अवचूरिः- 'ऋक् गतौ, भृशं पुनः पुनर्वा इत्ति'अरार्यते,' यङ्, “क्ययङाशीर्ये' ( 4 / 3 / 10) इति गुणः-ऋस्थाने अर्, अर्थ, “स्वराद्वितीयः" (4 / 14) इति द्वित्वम्, ( अर्यर्य ) "व्यअनस्यानादेलुक" (4 // 1 // 44 / इति) आद्ययकारलोपः, “आगुणावन्यादेः" (4 // 1148 ) इति आकारः। एवमटाट्यते / सूत्रण विमोचने, मूत्रण प्रस्रवणे, सूचण् पैशून्वे, अशूटि ( अशौटि ) व्याप्तो, अशस् भोजने, ऊर्गुगक आच्छादने / 25 (प्रपूर्वः), भृशं पुनः पुनर्वा प्रोर्णोति- यङ, स्वरादेद्वितीयः" ( 4 / 1144) इति तथा “अयि र:" ( 41 6) इति 'ऊर्' विश्लिष्य “णषमसत्परे स्यादिविधौ च" (2 // 1 // 60 ) इति सूत्रेण द्वित्वरूपे परे विधौ कर्तव्ये णत्वशास्त्रस्यासिद्धत्वात् 'नु' इत्यस्य द्वित्वम् / अटचय॑शामव्यअनादित्वात्, सूत्रिमूत्रिसूचीनामनेकस्वरात, ऊर्णोतेरव्यअनाद्यनेकस्वरत्वात् "व्यञ्जनादे:०" ( 3.41 - 9) इति सूत्रेणाऽप्राप्ते सति अटयत्तिसूत्रि० इति सूत्र कृतमित्यर्थः // 10 // // 6 // / अवचूरिः-गुणक्रियानामषिधयणादीनां, कोऽर्थः ? पुनः पुनः इत्यामीक्ण्याः /
SR No.004402
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 02
Original Sutra AuthorN/A
AuthorRajshekharvijay
PublisherShrutgyan Amidhara Gyanmandir
Publication Year
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy