________________ मत्वर्थाधिकारः] मध्यमवृत्त्यवचूरिसंपलितम् / [443 * प्रत्ययः स्यात् / खण्डः कर्णोऽस्यास्ति कर्णः, नासि- कः / हीनादिति किम् ? कर्णवान् // 45 / / प्रव०-छिन्ना नासिका अस्यास्ति नासिकः // 45 / / अभ्रादिभ्यः // 7 / 2 / 46 // म०३०-अभ्र इत्यादिभ्यो मत्वर्थे 'अ' स्यान्मतुश्च' / अभ्राण्यस्मिन् सन्ति अभ्रनमः, उरसः, उरस्वान् // 46 // प्रव०-'यथादर्शनं मतुश्च / अभ्र, अशस् , उरस् , तुन्द, चतुर, पलित, जटा, घाटा, कर्दम, काम,वल,घटा,अम्ल,लवण इतिअभ्रादिराकृतिगणः। 2 (एवम् ) अास्यस्य सन्ति अर्शसो देवदत्तः / / 46 / अस्-तपो-माया-मेधा-स्रजो विन् // 7 / 2 / 47 // म. वृ०-असन्तेभ्यः, तपस् , माया, मेधा, सज् इति शब्देभ्यो मत्वर्थे 'विन् मतुश्च' स्यात् , असन्त,-यशस्वी, यशस्थान : सरस्वी, सरस्वान . 'सरस्वती; तेजस्वी, तपस्वी, [तपस्वान् ;] मायाथी, [ मायावान , ] मायी, मायिकः ; मेधावी, / मेधावान् ,] स्रग्वी, स्रग्वान् // 47 // प्रव०-'सरस्वती' इत्यत्र यदा नदीपर्यायः सरस्वतीशब्दः तदा सरः सरणं गमनमस्या अस्तीति सरस्वतीति वाक्ये मतु, 'मावर्णान्तोपान्त्य०' (2 / 194) इति मस्य वः, ततो डी, यदा तु भारतीवाचकः सरस्वतीशब्दः तदा सरो मानसाख्यादि अस्या अस्ति इति वाक्ये मतुः / तपसोऽसन्तत्वेन सिद्धेऽपि यदत्र पृथग् तपःशब्दप्रहणं तत् ज्योत्स्नाद्यणा बाधो मा भूदित्येवमर्थम् / उ'मायिकः', भत्र ब्रह्मादिपाठात् इकप्रत्ययः // 47 // आमयादीर्घश्च // 7 / 2 / 48 // म० वृ०-आमयात् 'विन् मतुश्च' स्यादामयस्य [विन्संयोगे] दीर्घश्च / आमयावी,आमयवान् // 48 // स्वान्मिन्नीशे // 72 // 49 // म० वृ०-स्वशब्दान्मत्वर्थे ईशे वाच्ये 'मिन्' स्यात , दीर्घश्चास्य [ शब्दस्य ] / स्वमस्यास्ति= स्वामी। ईशे इति किम् ? 'स्ववान् // 49 / / प्रव०-१.. ............"न तु भोग्यतया इति मिन् न भवति, मतुः भौत्सर्गिकः सिद्धः // 49 / / गोः / / 7 / 2 / 50 // म. वृ०-गोशब्दात् 'मिन् मतुश्च' स्यात् / गोमी, गोमान् // 50 // ऊों विनवलावस् चान्तः / / 7 / 2 / 51 / / ___म० वृ०-ऊशब्दात् विनवलप्रत्ययौ, 'तद्योगेऽस्य अस् इत्यन्तादेशश्च स्यात् / 'ऊर्जस्वी, ऊर्जस्वलः / मतुश्च- ऊर्वान् / कथमूर्जस्वान् ? ऊर्जयतेरस्प्रत्ययः मतुश्च // 51 // मव०-विनवलयोगे ऊशब्दस्य। ऊर्जनमू, 'ऋत्सम्पदादिभ्यः किप्' (5 / 3 / 114), ऊर्गस्यास्ति-ऊर्जस्वी // 51 // तमिस्रा-ऽऽर्णव-ज्योत्स्ना / / 7 / 2 / 52 / / म० ३०-तमिस्र अर्णव ज्योत्स्ना इति शब्दा निपात्यन्ते / 'तमिस्रा रात्रिः, तमिस्र तमःसमूहः, तमिस्राणि गुहामुखानि, तमस्थान [भत्र मतुश्च] / अर्णवः समुद्रः / उज्योत्स्ना चन्द्रप्रभा, अन्यत्र ज्योतिष्मती रात्रिः; निपातनस्येष्टविषयत्वात् / 52 / - प्रव०-'तमस्शब्दः, तमोऽत्रास्तीति तमिसा, निपातनात् रः प्रत्ययः उपान्त्यस्य च इत्वम् , तमिस्रः, आप, तमिस्रा रात्रिः, एवं तमिस्रम् / भर्णसशब्दो जलवाची, अर्णो जलमत्रास्ति भर्णवः, निपातनात् वः प्रत्ययः भन्तस्य चलोपः-मर्णवः। उज्योतिस्शब्दो दीप्तिवाचकः, ज्योतिर्दीप्तिरत्रास्ति, निपातनात् ज्योतिस्परतो नः प्रत्ययः, उपान्त्य'इ'इतिलुप्यते,त् तिष्ठति- ज्योत्स्ना। 'तमिस्रार्णवज्योत्स्ना' इति सूत्रे तमिस्र इति अकारान्त एव निपातः / "ज्योतिष्मती' इत्यत्र ज्योतिसशब्दो नक्षत्रवाचकः / // 52 // गुणादिभ्यो यः // 7 // 2 // 53 //