________________ 442] श्रीसिद्धहेमशब्दामुशासनं [अ० 7 पा० 2 सू० 39-45 काण्डीरः , काण्डवान् ; आण्डोरः , आण्डवान् ; भाण्डीरः, भाण्डवान् // 38 // प्रव०-आण्डौ मुष्कौ वृषणावित्यर्थः // 38 // कच्छवा डुरः // 72 // 39 // म० वृ०-कच्छूशब्दात् 'डुरमतू' भवतः / कच्छरः, कच्छूमान् [कच्छू पामा] // 39 / / दन्तादुन्नतात् // 7 / 2 / 40 // म० वृ०-उन्नतत्वोपाधिकाद् [विशेषणात् ] दन्तशब्दात् 'डुरः' स्यात् / दन्तुरः' / उन्नतादिति किम् ? दन्तवान् // 40 // अव०-'उन्नता दन्ता अस्य सन्तीति दन्तुरः / दन्तुर इति प्रयोगोपरि इमे विशेषा ज्ञातव्या भवन्ति, निर्गतत्वमुन्नतत्वम् , प्रमाणातिरेकः प्रमाणाधिक्यं विवृद्धत्वम् इति (उन्नतत्वविवृद्धत्वयोः) भिन्नत्वम् / तत्रोन्नतार्थे दन्तुर इति भवति / विवृद्वार्थविवक्षायां तु 'स्वाङ्गाद्विवृद्धात्ते' (7 / 2 / 10) इति सूत्रेण 'आयात् , (7 / 2 / 2) इति सूत्रेण च इलेकेनप्रत्ययाः मतुश्च भवन्ति / दन्तिलः, दन्तिकः, दन्ती, दन्तवान् इति प्रयोगाः / दन्तशब्दस्य मत्वर्थे प्रयोगपश्चकं भवति / उन्नतार्थो हि मतुना न गम्यते इति मतुर्न भवति इति भावः // 40 // मेधा-रथानवेरः // 7 / 2 / 4 // म. वृ०-मेधारथशब्दाभ्यां मत्वर्थे 'इरः' स्यात् नवा / विकल्पवशाद्यथाप्राप्तमिकेनौ मतुश्च / मेधिरः, मेधावान् ; उत्तरसूत्रेण ['अस्तपो'० (7 / 2 / 47) इत्यनेन] विन्नपि,-मेधावी। रथिरः, रथिकः, रथी, रथवान् // 41 // कृपा-हृदयादालुः // 7 / 2 / 42 / / म०वृ०-कृपाहृदयाभ्यां मत्व तुश्च' स्यात् / कृपालुः, कृपावान् ; हृदयालुः, हृदयिकः, हृदयी, हृदयवान् // 42 // केशाद्वः / / 7 / 2 / 43 // म० वृ०-केशान्मत्वर्थे 'वः स्याद्वा 'मतुश्च' / केशवः,केशिकः,केशी,केशवान् / 'केशव इति रूढिशब्दोऽपि विष्णुवाची // 43 // प्रव०-'न केवलं यस्य केशा सन्ति स केशव ' उच्यते, किन्तु विष्णुवाची केशवशब्दो रूढिशब्दो ऽप्यस्तीत्यर्थः // 43 // मण्यादिभ्यः // 7 / 2 / 44 // म० वृ०-मण्यादिभ्यो मत्वर्थे 'वः स्यान्म-. तुश्च' / योगविभागाद्वेति निवृत्तम् / मणिवः, 'मणिलः; रबिम्बावम् , उकुररावम् , कुरवावम् , श्राजीवम् // 44 // अव०-'सिध्मादिगणपाठात् 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः '(221) इत्यनेनलः। बिम्बावमित्यादयत्रयोऽपि शब्दाः सरोवाचकाः। बिम्बानि अत्र सन्ति / कुरराः पक्षिविशेषाः अत्र सन्ति / कुत्सितो रवः शब्दो येषाम् (ते कुरवाः ),कुरवा अत्र सन्ति / यथाक्रमं प्रयोगाः। 'मण्यादिभ्यः' इति वः / ( कुरवावम् इत्यत्र ) 'घच्युपसर्गस्य बहुलम्' ( 3 / 2 / 86) इति बाहुलकादीर्घः / 'राजीवमिति प्रयोगः, राजिशब्दः, 'इतोऽक्त्यर्थात्' (2 / 4 / 32) डी, राजी अत्रास्ति, वः प्रत्ययः / एवमिष्टकावम , गाण्डिवम , गाण्डीवम् , अर्जुनधनुर्नाम, गाण्डिर्गाण्डी अत्रास्ति, वप्रत्ययः / तथा अजकावम् , माहेश्वरधनुः पिनाकनाम, तत्पर्यायोऽजकावम् , अजका अस्थिविकारोऽत्रास्ति अजकावम् / बिम्बावमित्यादयो रूढिशब्दाः / रूढिविषये च मतुर्न भवति / विषयान्तरे तु मतुभवत्येव,-बिम्बवानित्यादि। मणि, हिरण्य, बिम्ब, कुरर, कुरव, राजी, इष्टका. गाण्डि, गाण्डी, अजका इति मण्यादयः प्रयोगगम्याः // 44|| हीनात्स्वाङ्गादः // 7 / 2 / 45 // . ___म० ३०-हीनोपाधिकात् स्वाङ्गान्मत्वर्थे 'म:' *"मुष्के स्यादाण्डः पेलकोऽपि च" इति हैमनाममालाशिलोञ्छ।