________________ कृतार्थाधिकारः ] मध्यमवृत्त्यवचूरिसंवलितम् / [355 इन् , शिलालिना प्रोक्तं नटसूत्रं विदन्त्यधीयते वा शिलालिपराश०' इत्यनेन णिन् , 'नोऽपदस्य०' (7) 461) इति ततः, “कृशाश्वी शैलाली" इति नाममालापाठात् / उपराशरस्यापत्यम्- 'गर्गादेर्यम्' (6 / 1 / 42), पाराशर्येण प्रोक्त भिक्षुसूत्रं विदन्त्यधीयते वा- 'शिलालि०' इत्यनेन णिन् , 'यवनोऽश्यापर्ण०' (6 / 1 / 126) इति यम् लुप्यते // 189|| कृशाश्व-कर्मन्दादिन् // 6 / 3 / 190 // म० वृ०-आभ्यां तेन प्रोक्त यथासङ्ख्य नटसूत्रे ( भिक्षुसूत्रे ) इन् स्याद्वेदवञ्चास्मिन् कार्यम् / [अणोऽपवादः, 'तेन प्रोक्ते' (6 / 3 / 181) अणो विषयः] 'कृशाश्विनो नटाः / कर्मन्दिनो भिक्षवः / अतिदेशादकम् च- काश्विकम् , 'कामन्दकम् // 190 // ___ कृते // 6 / 3 / 192 // म. वृ०-तेनेति तृतीयान्तात्कृते-उत्पादितेऽर्थे 'यथाविहितमणादयः' स्युः [आदिशब्दात् ईयः] शिवेन कृतो ग्रन्थः शैवः, [वररुचिना कृतानि ] वाररुचानि वाक्यानि, सिद्धसेनीयः स्तवः, मनसा कृता मानसी कन्या // 192 / / नाम्नि मक्षिकादिभ्यः // 6 / 3 / 193 // म० वृ०-मक्षिकादिभ्यः [तृतीयान्तेभ्यः] कृतेऽर्थे यथाविहितं प्रत्ययो नाम्नि भवति / मक्षिकाभिः कृतं माक्षिकं मधु, [सरघाभिः कृतं ] सारघम् / नाम्नीति किम् ? मक्षिकाभिः कृतं शकृत् // 193 // प्रव०-'कृशा अश्वा यस्य, कृशाश्वेन प्रोक्तं नटसूत्र .......... ( विदन्त्यधीयते वा कृशाश्विनो नटाः) / कर्म द्यति=कर्मदः, 'आतो डो०' (5 / 1 / 76), कर्मन्द इति सूत्रनिर्देशादेव मोऽन्तः, अथवा 'नवाऽखित्कृदन्ते' (3 / 2 / 117 ) इत्यत्र योगविभागबलात् मोऽन्तः, कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः, अथवा 'अदु बन्धने',कर्माण्यन्दति बध्नाति इति ‘कर्मणोऽण्' (5 / 1 / 72), पृषोदरादित्वात् अलोपः, कर्मन्देन प्रोक्तं भिक्षसूत्रं विदन्त्यधीयते वा कमेन्दिनो भिक्षवः। कृशाश्वोऽस्यास्ति, 'कर्मन्दमस्यास्ति, इन् , कृशाश्विनो कर्मन्दिनो धर्मसयादिः, 'चरणादकन्' ( 6 / 3 / 168 ) / बाहुलकात् धर्मादावपि क्लीबत्वम् // 19 // उपज्ञाते // 6 / 3 / 191 // म०७०-तेनेति वर्त्तते, न प्रोक्तम् / तेनेति तृतीयान्तादुपज्ञातेऽर्थे 'यथाविहितं' [ईय एव] प्रत्ययः स्यात् / पाणिनीयम् // 19 // प्रव०-मक्षिका, सरघा, गर्मुत् , नर्मका, पुत्तिका, क्षुद्रा, भ्रमर, वटर, वातप इति मक्षिकादिगणः / वातपैः कृतं वातपम् , अत्रापि अण एव भवति, न ईयः, स्वभावात् / इदमपि व्यावृत्त्युदाहरणं ज्ञातव्यम् / / 193 // कुलालादेरका // 6 / 3 / 194 // म० वृ०-कुलालादिभ्यस्तेन कृते-'ऽकम्' स्यान्नाम्नि / [ कुलालेन कृतं ] कौलालकम् , [वरुटेन कृतं] वारुटकम् / नाम्नीत्यभिधेयनियमार्थम् / तेन घटघटीशरावोदश्चनाद्येव भाण्डं कलालकम् , न यत् किञ्चित् कुलालकृतम् / शुर्पपिटकपटलिकापच्छिकायेव भाण्डं वारुटकम्, नान्यद् / एवमन्यत्राप्यभिधेयनियमः // 194 // प्रव०-कुलाल, वरुट, कार, निषाद, चण्डाल, सेना, सिरन्ध्र, देवराजन् , देवराज, परिषद्, वधू, भद्र, अनडुङ्, ब्रह्मन् , कुम्भकार, अश्वपाक, रुरु इति कुलालादिगणः / / 194 // सर्वचर्मण ईनेनौ // 6 // 3 / 195 / / * अभिधानचिन्तामणिकोशस्य ३२९तमे श्लोके /