________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते पञ्चानां पश्चाहश्च' (4 / 2 / 118) इति ब्रूस्थाने आह् सेः स्थाने थव् / 'नहाहोर्धतौ' (2 / 1 / 85) इति हकारस्य तकारः / आत्य इति सिद्धम् / आह / आहतुः / आहुः / ब्रू / वर्तमाना तिव् / तस् / अन्ति / ‘ब्रूगः पञ्चा०' इति सूत्रेण णव् अतुस् उस् / ब्रूगश्च आह् इति // 85 / / चजः कगम् // 2 // 1 // 86 // चकारजकारयोः स्थाने धुटि प्रत्यये परे पदान्ते च ककारगकारादेशौ स्याताम् / [वच्] वक्ता / वक्ष्यति। वाक् / वाग्भिः / जः / [त्यजं वयोहानौ] त्यक्त्वा / त्यक्ष्यति / धुट् पदान्ते इत्येव / वच्मि / प्रत्यय इत्येव इच्छति / [अच् च हल् च] अज्झलावत्र तु संज्ञाशब्दत्वान्न स्यात् [कत्वं न भवति] // 86 // यजसृजमृजराजभ्राजभ्रस्जवश्वपब्रिाजः शः षः // 2 / 1187 // यजादीनां धातूनां चकारजकारयोः शकारस्य च स्थाने धुटि प्रत्यये पदान्ते च ष आदेशः स्यात् / [यज्] यष्टा / देवेट् / [सृजत् विसर्गे] स्रष्टा / तीर्थसृट् / माल / [राजग्टुभ्राजि दीप्तौ] सम्राट् / विभ्राट् / राजभ्राजोः क्तिरेव धुट् / अन्यस्त्विटा व्यवधीयते / राष्टिः / [भ्रस्जीत् पाके] भ्राष्टिः / भ्रष्टा / भी / धानाभृट् / [ओवश्वौत् छेदने] व्रष्टा / मूलवृट् / परिवाट् / शकारारान्तः / [लिशिंच्ऽल्पत्वे] लिश् / लेष्टा / लिट् / छादेशोऽपि शकारो गृह्यते / प्रष्टा / प्रष्टुम् / शब्दप्राट् / यजाविधातुसाहचर्यात् शकारोऽपि धातुसम्बन्ध्येव गृह्यते / तेनेह न स्यात् / निजभ्याम् / निच्छु / अत्र [अस्मिन्नुदाहरणद्वये] परे गत्वे जकारस्यासत्त्वात् 'चजः कगम्' (2 / 1186) इति गत्वं न भवति / चज इत्येव / वृक्षः / वृश्चमाचष्टे णौ विचि वृक्ष // 8 // __ अ० 'यजी देव०' देवेभ्यो यजतीति देवेट् / क्किप् / मार्टा / 'मृजौक् शुद्धौ' मृज् / मार्टीति / तृच् ता वा / 'लघोरुपान्त्यस्य' (4 / 3 / 4) गुणः अर् / 'मृजोऽस्य वृद्धिः' / (4 / 3 / 42) अकारस्य आंकारः / भर्टा / 'भ्रस्नीत् पाके' भ्रस्ज् / तृच् / ता वा / 'भृजो भर्ख (4 / 4 / 6) इति विकल्पेन भर्छ / धानाभृज्जति धानाभृट् / किम् / 'ग्रहश्चभ्रस्जप्रच्छः' (4 / 1 / 84) इति वृत् / रस्य ऋः / धानाभृट् / प्रष्टा इत्यादि / 'प्रच्छंत् ज्ञीप्सायाम्' प्रच्छ / पृच्छतीति प्रष्टा / तृच् / पृच्छनाय / प्रष्टुम् / तुम्प्रत्ययः / शब्दं पृच्छतीति शब्दप्राट्,। 'दिद्यद्ददृ०' (5 / 2 / 83) क्किप् / 'अनुनासिके च यः शूट्' (4 / 1 / 108) इति सूत्रेण छस्य शकारः / पश्चात् 'यजसृज०' (2 / 1 / 87) इति शकारस्य षकारः / 'धुटस्तृ०' (2 / 1 / 76) इति षस्य ड् / 'विरामे वा' (1 / 3 / 51) इति डस्य ट् / तथा सम्राट् विभ्राट् इत्यत्रायं विशेषः / सूत्रे राजभ्राज 'राजृग् टुभ्रातृ दीप्तौ' इत्यस्य भ्राजः षत्वम् / 'एजुङ् भ्रेजुङ् भ्राजि दीप्तौ' इत्यस्य भ्राजः षत्वं न भवति, किन्त्वस्य जकारस्य 'चजः कगम्' इति गत्वम् / विभ्राक् / अत एव सूत्रे राजभ्राजौ उभयपदिनौ इह पठितौ / / निज्भ्याम् / निच्छु / निशाभ्याम् / सुप् / ‘मासनिशासनस्य शसादौ लुग्वा' (2 / 1 / 100) इति सूत्रेण आकारलोपः / 'धुटस्तृतीयः' (2 / 1 / 76) इति शकारस्य जकारः / निच्छु इत्यत्र तु जे कृते 'अघोषे प्रथमोऽशिटः' (1 / 3 / 50) इति जस्य चत्वे कृते 'सस्य शषौ' (1 / 3 / 61) इति सूत्रेण सुपः सकारस्य तालव्यशकारः / ततः 'प्रथमादधुटि०' (1 / 3 / 4) इति सूत्रेण शस्य छत्वम् / निच्छु इति सिद्धम् / अत्र उदाहरणद्वयेऽव्युत्पत्त्याश्रयणान्नायं शकारो धातुसम्बन्धीति जस्य षत्वं न भवतीत्यर्थः / परे गत्वे कर्तव्ये जस्याऽसत्त्वात् 'चजः कगम्' (2 / 1 / 86) इति गत्वमपि न स्यात् / / 87 / / संयोगस्यादौ स्कोर्लुक् // 2 / 1 / 88 //