________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः 'हो धुट्०' इति कृतढत्वस्यासत्त्वे तदाश्रिता ‘धश्चेति कृतधत्वस्याप्यसत्त्वे णौ यत्कृतं तत्स्थानिवदितिन्यायात् अकारलोपस्य स्थानित्वे सति 'नाम्नो द्वितीयाद्यथेष्टम्' (4 / 1 / 7) इति सूत्रेण ह इति द्वित्वं कार्यम् / 'व्यञ्जनस्यानादे.' (4 / 1 / 44) इति तस्य लोपे कृते / 'गहोर्जः' (4 / 1 / 40) इति हस्य जे कृते औजढत् इति सिद्धम् / तत्र यदा परे द्वित्वे 'हो धुट्०' 'अधश्च०' इति शास्त्रासिद्धिराश्रीयते तदा पुनरपि 'हो धुट्०' इति प्रक्रिया क्रियते / ततो 'ढस्तड्डे' इति ढलोपे जकार अकारस्य दीर्घ कृते 'हस्व' (4 / 1 / 39) इत्यनेन ह्रस्वः कार्यः / औजढत् इति सिद्धम् / / 82 / / भ्वादेर्दादेर्घः // 2 / 183 // भ्वादेर्धातोर्यो दकारादिरवयवस्तदवयवस्य हकारस्य [कोऽर्थ आदौ दकारः अग्रे हकारः ईदृग्धातोर्घकारः कार्यः] धुटि प्रत्यये पदान्ते च घ इत्यादेशः स्यात् / ढस्यापवादः / [दह] दग्धा / धक्ष्यति / दोग्धा / [दुह] धोक्ष्यति। अधाक्षीत् / पदान्ते / अधोक् / [गां दोग्धीति] गोधुक् / गोधुक्षु / दादेरिति किम् ? [सह सोढा // 83 // ____ अ० अधाक्षीत् / दह अद्यतनीदि / अट् / सिच् / 'सः सिजस्तेर्दिस्योः' (4 / 3 / 65) इति सिच ईकारः / 'व्यञ्जनानामनिटि' (4 / 3 / 45.) इति वृद्धिः / 'भ्वादे०' (2 / 1 / 83) हस्य घः 'अघोषे प्रथमो०' (1 / 3 / 50) घस्य कः / 'नाम्यन्तस्था०' (2 / 3 / 15) इति सस्य षः / अधोक्-दुह् / / ह्यस्तनीदिव् / सिर्वा / 'लघोरुपा०' (4 / 3 / 4) गुणः / 'व्यञ्जनाद्देः सश्च दः' (4 / 3 / 78) इति सूत्रेण दिलोपः / सिलोपे च कृते 'भ्वादे०' (2 / 1 / 83) हस्य घः / 'गडदबादेः' (2 / 1 / 77) दस्य धत्वम् / 'धुटस्तृतीयः' (2 / 1 / 76) ग् 'विरामे वा' (1 / 3 / 51) क् / / 83 / / . मुंहद्रुहष्णुहष्णिहो वा // 2 // 1184 // - एषां सम्बन्धिहकारस्य [हस्थाने] धुटि प्रत्यये पदान्ते च घादेशः स्याद् वा / द्रुहः प्राप्ते अन्येषामप्राप्ते [पूर्वेण मुहादीनां] विकल्पः / मोग्धा / मोढा / उन्मुक् / उन्मुट् / द्रोग्धा / द्रोढा / मित्रध्रुक् / मित्रध्रुट् / स्नोग्धा / स्नोढा / स्नेग्धा / स्नेढा / चेलस्निक् / चेलस्निट् / तथा / मोमोन्धि / मोमोढि / दोद्रोग्धि। दोद्रोढि // 84 // अ० 'मुहौच् वैचित्त्ये' मुह, 'दुहौच जिघांसायाम्' मुह्यतीति उन्मुह्यतीति द्रुह्यतीति / मित्रं द्रुह्यतीति / तृच् / किप् / पक्षे 'हो धुट् पदान्ते' (2 / 1 / 82) 'ष्णुहौच उद्गिरणे' ष्णिहौच प्रीतौ' तथा मोमोग्धीत्यादि / 'मुहादेः' इति सूत्रमकृत्वा धातुपरिगणनं यङ्लुप्यपि विध्यर्थम् / तेन मोमोग्धि इत्यादि सिद्धम् / अत्यर्थं मुह्यति अत्यर्थं द्रुह्यति / यङ् / द्वित्वम् / 'आगुणा०' (4 / 1 / 48) 'बहुलं लुप्' (3 / 4 / 14) // 84 / / नहाहोर्धतौ // 2 // 1 // 8 // - नहे—स्थानस्याहश्च धातोः सम्बन्धिहस्य धुटि प्रत्यये परे पदान्ते च यथासङ्ग्यं धकारतकारादेशौ स्याताम् / नद्धा / नत्स्यति / उपानत् / परीणत् / आह्-आत्थ / आहेर्नियतविषयत्वात्पदान्तता नास्ति / धुट् पदान्त इत्येव-उपनह्यति / आह / आहतुः / आहुः // 85 // ___ अ० 'णहींच बन्धने' 'पाठे धा०' (2 / 3 / 97) नह / तृच् ता वा / 'नहाहो.' हस्य धः / 'अधश्च०' (2 / 1 / 79) तस्य धः ‘तृतीयस्तृ०' (1 / 3 / 49) धस्य दः / उपनह्यतीति उपानत् / परिनह्यतीति परीणत् / किप् / 'गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ क्वौ' (3 / 2 / 85) इति दीर्घः / ‘ब्रूगक व्यक्तायां वाचि' ब्रू वर्तमानासि / ‘ब्रूगः