________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते विवम् इत्यादि / परोक्षायां जिन सम्भवतीति नोदाहृतम् / इटः / जगृहिवे / जगृहिध्वे / अग्रहीढ्वम् / अग्रहीध्वम् / ग्रहीषीध्वम् / इत्यादि / हान्तस्थादिति किम् ? घानिपीध्वम् / आसिषीध्वम् // 81 // अ० हश्च अन्तस्थाश्च हान्तस्थम् / 'क्लीबे' (2 / 4/97) इति ह्रस्वः / तस्मात् अन्तस्थात् / निश्च इड् च / ताभ्याम् / अग्राहिढ्वम्-'ग्रहीश् उपादाने' ग्रह / अद्यतनीध्वम् / अट् / 'सिजद्यतन्याम्' (3 / 4 / 53) / 'स्वरग्रहदृशहन्भ्यः स्यसिजाशी: श्वस्तन्यां जिड्वा' (3 / 4 / 69) इति सूत्रेण ग्रहसिच्विचाले जिट् / 'अप्रयो०' (1 / 1 / 37) इकारस्तिष्ठति ‘णिति' (4 / 3 / 50) इति सूत्रेण वृद्धिः / आकारः / ‘सो धि वा' (4 / 3 / 72) इति सिचो लोपः। 'हान्तस्था०' (2 / 1 / 81) इति धकारस्य ढकारः / / ग्राहिषीढ्वम् / ग्रह / आशीः सीध्वम् ‘स्वरग्रह०' (3 / 469) इति जिट् / 'ञ्णिति' 'हान्ते'ति धस्य ढः / 'नाम्यन्तस्था०' (2 / 3 / 15) इति सस्य षः // अनायित्वं पूर्ववत् ज्ञेयम् / / अकारिढ्वम् / कृ ध्वम् सिच् अट् ‘स्वरग्रहः' इति जिट् / 'नामिनोऽकलिहलेः' (4 / 3 / 51) इति वृद्धिः / कार् इति रूपम् / जगृहिढ्वे / ग्रह् / परोक्षाध्वे 'द्विर्धातुः परोक्षा०' (4 / 1 / 1) इति द्विवचनम् / 'व्यञ्जनस्यानादेर्लुक्' (4 / 1 / 44) अभ्यासे आदिव्यञ्जनं सस्वरं स्थाप्यते शेषो लुप्यते / ‘गहोर्जः' (4 / 1 / 40) गस्य जः / ‘स्क्रसृवृभृसुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः' (4 / 4 / 81) इति इट् / ‘ग्रहश्चभ्रस्जप्रच्छ:' (4 / 1 / 84) इति य्वृत् / रस्य ऋ। 'हान्त०' इति धस्य ढः / / अग्रहीढ्वम् / ग्रह् / अद्यतनीध्वम् / अट् / सिच् / 'स्याद्यशितोऽत्रोणादेरिट्' (4 / 4 / 32) इत्यनेन इट् / ‘सो धि वा' (4 / 3 / 72) सिचो लोपः / ‘गृह्णोऽपरोक्षायां०' (4 / 4 / 34) इति सूत्रेण इटो दीर्घः क्रियते / ‘हान्त०' इति धस्य ढः / / ग्रहीषीध्वम् / अत्रापि पूर्ववन्निष्पत्तिः / / घानिषीध्वम् / ‘हनंक् हिंसागत्योः' हन् / सीध्वम् / ‘स्वरग्रहदृशहन्' (3 / 4 / 69) इति सूत्रेण जिट् / 'ञिणवि घन्' (4 / 3 / 101) इति हनेर्घन् आदेशः / 'ब्णिति' वृद्धिः / आकारः / / आसिषीध्वम् / अत्र ‘स्ताद्यशितो०' इट् // 81 / / हो धुट्पदान्ते // 2 // 1182 // [हकारस्य स्थाने] हकारस्य धुटि प्रत्यये परे पदान्ते च ढो भवति / [लिह] लेढा / लेक्ष्यति / [वह] वोढा / वक्ष्यति // पदान्ते-मधुलिट् / मधुलिड्भ्याम् // असत्परे इत्येव / गुडलिण्मान् / / 82 // , ___अ० वोढा / ‘वहीं प्रापणे' वह् / तृच् ता वा / 'हो धुटपदान्ते' हस्य ढः / 'अधश्चतुर्धा०' (2 / 1179) इति तस्य धः / 'तवर्गस्य श्च०' (1 / 3 / 60) इति धस्य ढः / ‘सहिवहेरोच्चा०' (1 / 3 / 43) इति ओत्वं ढलोपश्च / वह् / स्यति / ‘हो धुट्०' इति हस्य ढः / षढोः कः सि' (2 / 1 / 62) ढस्य कत्वम् / 'नाम्यन्तस्था०' (2 / 3 / 15) इति सस्य षः / गुडलिडऽस्यास्तीति ‘तदस्या०' (7 / 2 / 1) इति मत् / अन्तवर्त्तिनीविभक्तिमाश्रित्य पदान्तत्वे सति ‘हो धुट्०' इति हस्य ढः / 'धुटस्तृ०' (2 / 1 / 76) डे कृतेऽत्र असत्परे इति कोऽर्थः-परे मस्य वत्वे कर्त्तव्ये ढत्वं डत्वं च असत् स्यात् / असति ‘मावर्णान्तोपान्ता०' (2 / 1 / 94) इति मस्य वत्वं न भवति, प्राप्तेरभावात् / गुडलिण्मान् / / अस्मिन्नुदाहरणप्रस्तावे औजढत् इत्यपि उदाहरणं ज्ञातव्यम् / वह् / उह्यतेस्म / ऊढ / क्तः / 'यजादिवचेः०' (4 / 1 / 79) यवृत् / वस्य उ / 'हो धुट्०' इति धातुहस्य ढः / 'अधश्चतुर्था०' इति प्रत्ययतस्य धः / 'तवर्गस्य श्च०' इति धस्य ढः / ‘ढस्तड्डे' (1 / 3 / 42) इति दीर्घः प्रकृतिढस्य च लोपः / ऊढः / ऊढमाख्यत् ‘प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) अकारलोपो ढस्य / अद्यतनी दि। ‘णिश्रिद्रुमुकमः०' (3 / 4 / 58) इति ङप्रत्ययः / ‘स्वरादेस्तासु' (4 / 4 / 31) वृद्धिः / औ / अत्रासत्परे कोऽर्थः ? परे द्वित्वे कर्त्तव्ये