________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः (4 / 1 / 48) अभ्यासे आकारः, अभ्यासे 'नश्चातः' (4 / 2 / 96) इति आकारलोपः / 'बहुलः लुप्' (3 / 4 / 14) / यङ्लोपः / 'अघोषे प्र०' (1 / 3 / 50) त् / तथा 'धागस्तथोश्च' (2 / 1 / 78) अत्र सूत्रे विशेषोऽयम् / दधातेरपि यङ्लुपि सत्यां आदिचतुर्थो न स्यात् / दधातेरपि यङि सति दात्तो दात्थ इति प्रयोगौ भवतः / यत उक्तम्'तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च / / एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि' // 1 // भृशं पुनः पुनर्वा धत्तः इति वाक्यम् यङ्लोपे सति इत्यर्थः // 78 // अधश्चतुर्थात्तथोर्धः // 2 // 1 // 79 // [न धा अधा तस्मात्] थ/ चतुर्थात्परयोस्तकारप्रकारयो [चतुर्थ अक्षरात् परयोः तकारथकारस्थाने] र्धारूपवर्जिताद्धातोर्विहितयोः [कृतयोः] स्थाने धकारादेशः स्यात् / दोग्धा / दोग्धुम् / अदुग्ध / लेढा / लेढुम् / अलीढ / बोद्धा / बोद्धम् / अबुद्ध। लब्धा / अलब्ध [त] / अलब्धाः [थास्] / अध इति किम् ? दधातेर्यङ्लुबन्तधयतेश्च मा भूत् / धत्तः / धत्थः। दात्तः / दात्थः // 79 // ___ अ० दुह तृच् / श्वस्तनी ता वा / दोहनाय दोग्धुम् / ‘क्रियायां क्रिया०' (5 / 3 / 13) तुम् / अदुग्ध अद्यतनीत / 'हशिटो नाम्यु०' (3 / 4 / 55) सक् / 'दुहदिह' (4 / 3 / 74) इति सग्लोपः / 'भ्वादेर्दादेर्घः' (2 / 1 / 83) हस्य घः / 'अधश्चतुर्था०' (2 / 1 / 79) इति तस्य धकारः / 'लिहीक् आस्वादने' लिह् / लेढीति तृच् / अथवा ता / 'लघो०' (4 / 3 / 4) गुणः / 'हो धुट्०' (2 / 1 / 82) इति हस्य ढः / 'अधश्च०' (2 / 1 / 79) इति तस्य धः / 'तवर्गस्य श्च 0' (1 / 3 / 60) इति धस्य ढः / 'ढस्तड्डे' (1 / 3 / 42) इति ढलोपः / अलीढ इत्यत्र लिह् / अद्यतनीत / अडागमः / 'हशिटो ना.' (3 / 4 / 55) इति सक् / 'दुहदिहलिहगुह.' (4 / 3 / 74) इति सक्लोपः / 'हो धु०' (2 / 1 / 82) इति हस्य ढः / ढलोपश्च / अलीढ इति सिद्धम् / 'धे पाने' धा / यङ् इत्यस्य रूपं धत्तः / धत्थः / दधातेर्यङि लुपि च रूपं दात्तः, दात्थः // 79 / / ___ म्यन्तात् परोक्षाद्यतन्याशिषो धो ढः // 2 // 1180 // रेफान्तानाम्यन्ताच्च धातोः परासां परोक्षाद्यतन्याशिषां विभक्तीनां यो धकारस्तस्य [धकारस्थाने] ढकारः स्यात् / [रेफ़स्य] अतीद्धम् / तीीढ्वम् / तुष्टुट्वे / चकृट्वे / अदिवम् / अधिवम् / अकृवम् / कृषीढ्वम् // 8 // ___ अ० रश्च नाम्यन्तश्च र्नाम्यन्तः / तस्मात् / पञ्चमी ङसि / अतीवं इत्यत्र / 'तृ प्लवनतरणयोः' तृ / अद्यतनीध्वम् / 'सिजद्यतन्याम्' (3 / 4 / 53) 'सो धि वा' (4 / 3 / 72) इति सिचो लोपः / 'ऋतां क्ङितीर' (4 / 4 / 116) इति इर् / अडागमः / अदिढ्वम् / अधिढ्वम् / दा धा धातुः / अद्यतनीध्वम् / 'सिजद्यतन्याम्' (3 / 4 / 53) 'इश्च स्थादः' (4 / 3 / 41) इत्यनेन सूत्रेण सिन् किद्वत्, स्था दा इत्याकारस्य इकारश्च भवति / र्नाम्यन्तेति नाम्यन्तद्वारेण धस्य ढकारः // 8 // हान्तस्थाञीडभ्यां वा // 2 // 18 // हकारान्तादन्तस्थायाश्च परात् जेरिटश्च परासां परोक्षाद्यतन्याशिषां सम्बन्धिनो धकारस्य ढो वा स्यात् / वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः / [निट् उदाहरणम् 11] / अग्राहिढ्वम् / अग्राहिध्वम् / ग्राहिषीढ्वम् / ग्राहिषीध्वम् / अनायिढ्वम् / अनायिध्वम् / नायिपीढ्वम् / नायिषीध्वम् / अकारिध्वम् / अकारिद्वम् / अला