________________ 88 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते गुह् / पर्णानि गूहते किप् / सिलोपः / ततो 'हो धुट पदान्ते' (2 / 1 / 82) हस्य ढः / सूत्रप्रवृत्तिः / गकारस्य घकारः / 'धृटस्तृतीयः' (2 / 1176) इति ढस्य डः / ‘विरामे वा' (1 / 3 / 51) डस्य टकारः / तुण्डिभ / तुण्डिभमाचष्टे ‘णिज्बहुलं नाम्नः कृगा०' (3 / 4 / 42) इति णिज् / तुण्डिभयतीति क्विप् / सिः / 'गडदबा०' इत्यनेन डस्य ढः / 'धुटस्तृ०' भस्य ब् / 'विरा०' बस्य प् तुण्ढिप् / गो। 'दुहीक क्षरणे' / गोर्दोग्धि क्विप् सिलोपे / 'भ्वादेर्दादेर्धः (2 / 1 / 83) इति हस्य घकारः / 'गडदवा०' इत्यनेन दस्य धकारः / 'धुटस्तृ०' घस्य गः / 'विरामे वा' क्। धर्मभुत् / धर्म / 'बुधिं मनिंच् ज्ञाने' / बुध / धर्मं बुध्यते क्विप् / सिलोपे / 'गडदबा०' इति बकारस्य भकारः। 'धुटस्तृः' इति धस्य दः / ‘विरा०' त् / / न्यध्वम् / गुह् / निपूर्वोऽद्यतनीध्वम् / ‘अड्धातोः' (4 / 4 / 29) आदावडागमः / 'हशिटो नाम्युपान्त्यादृशो०' (3 / 4 / 55) इति धातु ध्वं विचाले सक् / 'दुहदिहलिहगुहो दन्त्यात्मने वा सकः' (4 / 3 / 74) इति सको लोपः / 'हो धुट०' (2 / 1 / 82) इति हस्य ढः / 'तवर्गस्य०' (1 / 3 / 60) इति धस्य ढः / 'ढस्तड्डे' (1 / 3 / 42) इति दीर्घः / ढलोपश्च / / ___अधुग्ध्वम् / दुह् / ध्वम् / अडागमः / ‘हशिटो नाम्युपान्तायाः' इति सक् / 'दुहदिह' इति सको लोपः। 'भ्वादेर्दादेर्घः' (2 / 1 / 83) हस्य घः / 'गडदबा०' इति दस्य धः / 'तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) इति घस्य गः / / बुभुत्सते / 'बुध्' / बोटुमिच्छति / 'तुमर्हादि०' (3 / 4 / 21) इति सन् / इत्यादि / / अभुद्ध्वम् / बुध् / ध्वम् / अट् / 'सिजद्यतन्याम्' (3 / 4 / 53) सिच् / 'सो धि वा' (4 / 3 / 72) इत्यनेन सिच् लुप्यते / / अबुद्ध। अबुद्धाः / बुध् / अद्यतन्याः त थास् / अट् / 'सिजद्यतन्याम्' / 'धुड्ह्रस्वाल्लुगनिटस्तथोः' (4 / 3 / 70) इति सिचो लुक् / 'अधश्चतु' (2 / 1179) इति प्रत्यक्ष तस्य थस्य च धकारः / तृतीयस्तृतीयः' इति धस्य दकारः।। वर्णविधि इत्यादि अक्षरा-र्थोऽयम्-वर्णसिचो रूपे सकारे विधिर्वर्णविधिस्तस्य भावः / तेन 'स्थानीवाऽवर्णविधौ' (7 / 4 / 109) इति न्यायात् सिचो लुग् एव जातः / सिचः स्थानिवद्भावत्वं न भवति इति हेतोरत्राबुद्धेत्यादौ सिचो लुकि सत्यां 'गडदबा०' इति आदिचतुर्थो भकारौ बस्य नाभूदित्यर्थः / / 77|| धागस्तथोश्व // 2 / 1178 // दधातेश्चतुर्थान्तस्य दकारादेर्दकारस्य तथोः [तकारथकारपरयोः] सध्योश्च परयोश्चतुर्थः स्यात् / धत्तः। धत्ते। धत्थः / धत्थ / धत्से / धत्स्व / धये / अत्रासद्विधित्वाद्वचनसामर्थ्याद्वाऽतो लोपस्य स्वरादेशत्वेऽपि स्थानिवद्भावो न स्यात् [असत्प्रकरणत्वात् धागस्तथोरितिकरणाच] / गकारः / किम् ? धयतेर्मा भू 'धे' यङ्लुपि दात्तः। दात्थः / तथोश्चेति किम् ? दध्वः दध्मः // 78 // __ अ० धत्तः इत्यादि / 'डुधांग्क् धारणे' धा वार 7 / यथाक्रमं तस् ते थस् थ से स्व ध्वे विभक्ति / 'हवः शिति' (4 / 1 / 12) इति द्वित्वम् / धा / 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) अभ्यासे धस्य दः / ‘ह्रस्वः' (4 / 1 / 39) / 'नश्चातः' (4 / 2 / 96) इति धातु आकारस्य लोपः / 'धागस्तथोश्च' इति सूत्रेणाभ्यासदस्य धः / 'अघोषे प्रथमो०' (1 / 3 / 50) इति धस्य त् // धद्ध्वे इत्यत्र 'तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) इत्यनेन धातुधकारस्य दकारः / अत्र आतो लोपस्य कोऽर्थः ? आकारलोपस्य स्थानिवद्भावत्वं न भवतीत्यर्थः / / दात्तः / दात्थः इत्यादि 'ट्वें पाने' धा / ‘आत्सन्ध्यक्षरस्य' (4 / 2 / 1) इति आ / भृशं धयते 'व्यञ्जनादेरेकस्वरात्०' (3 / 4 / 9) इत्यादिना यङ् / 'सन्यङश्च' (4 / 1 / 3) इति द्वित्वम् / ‘ह्रस्वः' / 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) दः / 'आगुणावन्यादेः /