________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः सभावः / सजूः / कोऽर्थः ? संयुक्तः सेवितो वा // 73 / / अह्नः // 2 / 174 // अहंन्शब्दस्य पदान्ते रुरित्यादेशः / स्यात्, सचासन् परे स्यादिविधौ च / हे दीर्घाहोनिदाघः // दीर्घाहा निदाघः-अत्र रुत्वस्यासत्त्वानन्तलक्षणो दीर्घो भवति [नि दीर्घः (1 / 4 / 85) इत्यनेन] / अहोभ्याम् / अहस्सु // 74 / / ___ अ० दीर्घाणि अहानि अस्मिन्निदाघे स दीर्घाहोनिदाघः / तस्य सम्बोधनम् / 74 // . रो लुप्यरि // 2 // 1175 // __ अहन्शब्दस्य लुपि सत्याम् [विभक्तेलोंपे सति] अरेफे परे पदान्ते रोऽन्तादेशः स्यात् / रोरपवादः [रु इत्यस्य अपवादः] अहरधीते / अहर्ददाति / अहर्भुङ्क्ते / दीर्घाहर्मासः / अहर्वान् / लुपीति किम् ? हे दीर्घाहोऽत्र / अरीति किम् / अहोरूपम् / अहोरात्रः // 75 // __ अ० अरेफे कोऽर्थ ? रेफ वर्जयित्वा स्वरे व्यञ्जने वा परे सति रकारो भवति / अहन् परतः / अम् / 'अनतो लुप्' (1 / 4 / 59) दीर्घाहांश्चासौ मासश्च दीर्घाहर्मासः / समासमध्ये 'ऐकायें' (3 / 2 / 8) इत्यनेन विभक्तिलोपः / दीर्घमहो यत्र / तस्य सम्बोधनम् / सिः / 'दीर्घङयाब्०' (1 / 4 / 45) इति से क् / नलोपोऽत्र / अह्रो रूपं अहोरूपम् / अहश्च रात्रिश्च अहोरात्रः / 'ऋक्सामर्यजुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम्' (7 / 3 / 97) इत्यनेन अत् समासान्तो निपातः / 'अवर्णवर्णस्य' (7 / 4 / 68) इलोपः / पूर्वसूत्रेण 'अह्नः' (2 / 1 / 74) इत्यनेन नकारस्य रुः // 7 // धुटस्तृतीयः // 2 / 1176 // धुटां पदान्ते वर्तमानानां तृतीयः स्यात् / वाग् / वाग्भिः / षड् / पड्भिः / [ककुभ् इति शब्दः] ककुब् / ककुभिः / विड् / कश्वरति-कष्टीकते-कस्तरतीत्यादिप्वादेशविधानबलान स्यात् / ['चटते सद्वितीये' (1 / 37) इति शषसकरणबलात ततीयो न भवति / षष्ठ इत्यत्र त षष्ठीति निर्देशान्न स्यात // 7 // ___अ० विट् इत्यत्र ‘विशंत प्रवेशने' विश् / विशति प्रविशति धर्मार्थसाधनगणनायां इति विट् मनुष्यः / विप् / विश्शब्दः / अत्र ‘यंजसृज०' (2 / 1187) इत्यादिना शकारस्य षकारः / पश्चात् षकारस्य तृतीयो डकारः / कार्यः / / षष् / षण्णां पूरणः षष्ठः / 'षट्कतिकतिपयात्थट्' (7 / 1 / 162) इति थट् / अत्र 'षष्ठी वाऽनादरे' (2 / 1 / 108) इति निर्देशात् षकारस्य न डकारो भवतीत्यर्थः // 76 / / . गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये // 2 / 1177 // .. गडदबादेश्चतुर्थान्तस्यैकस्वरस्य धात्ववयवस्यादेश्चतुर्थ आसन्नः स्यात् पदान्ते सकारादी ध्वशब्दादौ च प्रत्यये परे / पर्णघुट् / पर्णघुड्भ्याम् / तुण्ढिप् / गोधुक् / धर्मभुत् / धर्मभुत्त्वम् / स्ध्वोः / [गुह] निघोक्ष्यते। न्यघूढ्वम् / [दुह] धोक्ष्यते / अधुग्ध्वम् / [बुध] भोत्स्यते / बुभुत्सते / अभुद्ध्वम् / गडदबादेरिति किम् ? क्रुत् / स्ध्वोश्चेति किम् ? धर्मबुधौ / बोद्धा / वर्णविधित्वेन स्थानिवद्भावो नास्तीति / अबुद्ध / अबुद्धाः। अत्र सिलुकि न स्यात् // 77 // * अ० गश्च डश्च दश्च बश्च गडदबाः / गडदबा आदौ यस्य धात्ववयवस्य स गडदबादिः / तस्य / चतुर्थो वर्णाऽन्ते यस्य धात्ववयवस्य स चतुर्थान्तः / तस्य / एकः स्वरो यत्र धात्ववयवे / तस्य / पर्णघुट् / पर्ण / ‘गुहौग् संवरणे'।