________________ 86 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते / किप् / 'यजादिवचेः किति' (4 / 1 / 79) इति यवृत् / इकारः / तत 'ऋत्विग्दिग्०' (2 / 1 / 69) इत्यादिना जकारस्य गकारः / 'विरामे वा' (1 / 3 / 51) विकल्पेन ककारः / ‘दिशींत् अतिसर्जने' दिश् / दिश्यते इति दिग् / पश्यतीति दृग् / दर्शनं वा दृग् / अन्य. दृश्. / अन्य इव दृश्यतेऽन्यादृग् / 'त्यदाद्यन्यसमानादुपमानाद्व्याप्ये दृशष्टक्सको च' (5 / 1 / 152) इति चकारात् क्विप्प्रत्ययः / ‘अप्रयोगीत्' (1 / 1 / 37) 'अन्यत्यदादेराः' (3 / 2 / 152) इति अन्यस्य आकारः कार्यः / एवं यादृग् / तादृग् / य इव दृश्यते / स इव दृश्यते / किप् / 'अन्यत्यदादेराः' अन्त्यस्य आकारः / 'स्पृशंत् संस्पर्श' / घृतं स्पृशतीति / मन्त्रेण स्पृशतीति / स्रग् / स्रक् / 'सृजत् विसर्गे' सृज् / सृज्यते इति स्रग् / 'क्रुत्सम्पदादिभ्यः किप्' (5 / 3 / 114) / सूत्रे निर्देशात् सृज ऋकारस्य रकारः / अथवा सुं गतौ। सृ / सरति देवादिषु इति स्रक् / 'ऋधिप्रथिभिषिभ्यः कित्' (874) इत्युणादिसूत्रेण अज् स कित् / ‘इवर्णादे०' (1 / 2 / 21) रत्वम् / स्रग् / 'जिधृषाट् प्रागल्भ्ये' / धृष् / धृष्णोतीति दधृग् / अत एव निर्देशात् द्वित्वं द्विवचनम् / उष्णिग् / 'उत्पूर्वष्णिहौच प्रीतौ' / 'षः स०' (2 / 3 / 98) इति स्निह् / ऊर्ध्वं स्निह्यति नह्यति वा / अत एव निर्देशात् उदो दकारलोपः / सस्य षत्वं च / नहेर्नकारस्य च ष्णि आदेशः // 69 / / नशो वा // 2 // 17 // नशेः पदान्ते गोऽन्तादेशो वा स्यात् / जीवनम् / जीवनक् / पक्षे जीवनड् / जीवनट् // 7 // अ० 'नशौच अदर्शने' / जीवस्य नशनं जीवनम् / 'भ्यादिभ्यो वा' (5 / 3 / 115) इति क्विप् / जीवनड् इत्यत्र च / 'यजसृज०' (2 / 1 / 87) इत्यादिना शकारस्य षकारः / 'धुटस्तृतीयः' (2 / 1 / 76) इति षकारस्य डकारः। ‘विरामे वा' (1 / 3 / 51) इति डस्य टकारः पक्षे / / 70 // . युजञ्चक्रुश्चो नो ङ // 2 / 1 / 71 // युअचुक्रुश्चां नकारस्य पदान्ते ङ इत्यादेशः स्यात् / युङ् / प्राङ् / क्रुङ् / पदान्ते इत्येव / युञ्जी। प्राञ्चौ // 71 // अ० 'युजूंपी योगे' युज् / युनक्तीति क्विप् / सिलोपे 'युज्रोऽसमासे' (1 / 4 / 71) इति नोऽन्तः / ‘पदस्य' (2 / 1 / 89) इति जकारलोपः / 'युजञ्चक्रुश्चो नो ङः' इति नकारस्य ङः / युङ् इति सिद्धम् / प्राङ् / 'अञ्चू गतौ च' अञ्च / प्रः पूर्वं / प्राञ्चतीति क्विप् / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इति नस्य लोपे / सिः / ‘अचः' (1 / 4 / 69) इति नोऽन्तः / ‘पदस्य' (2 / 1 / 89) चलोपः / 'युजञ्च०' इति नस्य ङः / प्राङ् इति सिद्धम् / 'कुञ्च् गतौ' क्रुञ्चतीति क्रुङ् / क्विप् / अत एव निर्देशात् 'नो व्यञ्जनस्यानुदितः' (4 / 2 / 45) इत्यनेन नकारो न लुप्यते / सिलोपे, 'पदस्य' इति चलोपे, 'युजञ्चक्रुञ्चो नो ङः' इति नकारस्य डकार / क्रुङ् इति सिद्धम् // 71 // सो रुः // 2 // 1 // 72 // पदान्ते सकारस्य रुरादेशः स्यात् / आशीः / मुनिर्याति / अग्निरत्र / पयः / पयोभ्याम् / उकारो 'अरोः सुपि रः' (1 // 3 // 57) इत्यत्र विशेषणार्थः // 72 // सजुषः // 2 // 1173 // सजुष इत्यस्य पदान्ते रुरन्तो भवति / सर्देवैः / साम् / / 73 // अ० 'जुषैति प्रीतिसेवनयोः' जुष् / सह पूर्वम् / सह जुषते इति सजूः / विप् / अत एव निर्देशात् सहस्य