________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः यि च' (4 / 2 / 88) इति सूत्रेण उकारलोपः सर्वत्र // 66 / / - मो नो म्वोश्च // 2 // 167 // मकारान्तस्य धातोरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोर्नकारादेशः स्यात्, स चाऽसन् परे / प्रशान् / प्रतान् / प्रदान् / प्रशान्भ्याम् / नकारस्यासत्त्वानलोपाभावः / ['नाम्नो नोऽनह्नः' (2 / 1 / 91) इत्यनेन प्राप्तस्य नलोपस्याभाव इत्यर्थः] म्वोः खल्वपि-जगन्मि। जङ्गन्वः / जङ्गन्मः / जगन्वान् / म्बोश्चेति किम् ? प्रशामौ // 67 // अ० शमूधातुः / प्रशब्दः पूर्वम् / 'तमूच काङ्कायाम्' तम् / प्रः पूर्वं शमू दमूच्० दम् प्रपूर्वं प्रशाम्यतीति, प्रताम्यतीति प्रदाम्यतीति क्विप् / “अहन् पश्चमस्य विङिति’ (4 / 1 / 107) इति दीर्घः / ततः सिः ( 'मो नो म्वोश्च' इति मकारस्य नकारः / / सचासन् / परे कोऽर्थः ? स्यादिविधौ सति / / खल्पपि इति शब्दोऽप्यर्थेऽखण्डमव्ययं ज्ञेयम् / ततोऽयमर्थः / मकारवकारयोरपि परयोर्मकारस्य नकारं दर्शयतीत्यर्थः / जङ्गन्मि / जङ्गन्वः / जङ्गन्मः / 'अमद्रमहम्ममीमृगम्लं गतौ' गम् भृशं पुनःपुनर्वा गच्छति / 'व्यञ्जनादेरेकस्वराद्धृशा०' (3 / 4 / 9) इति यङ्प्रत्ययः। 'सन् यङश्च' (4 / 1 / 3) इति द्वित्वम् / 'व्यञ्जनस्यानादेर्लुक्' (4 / 1 / 44) इति म् लुप्यते / अभ्यासे / 'गहोर्जः' (4 / 1 / 40) इति गस्य जः / 'मुरतोऽनुनासिकस्य' (4 / 1151) इति अभ्यासे मोऽन्तः / 'बहुलं लुप्' (3 / 4 / 14) इति यङो लोपः / मि वस् मस् / ‘मो नो म्वोश्च' (2 / 1 / 67) इति मस्य नकारः / / तथा जगन्वान् / गम् / जगाम इति वाग्ये 'तत्र वसुकानौ तद्वत्' (5 / 2 / 2) इति वसुः / 'द्विर्धातुः परोक्षा०' (4 / 1 / 1) इति द्वित्वम् / 'गहोर्जः' 'मो नो म्वोश्च' / मस्य नः / सिः / 'ऋदुदितः' (1 / 4 / 70) नोऽन्तः / 'अभ्वादेः० (1 / 4 / 90) / दीर्घः / सिलोपः / ‘पदस्य' (2 / 1 / 89) सलोपः // 67 / / संस्ध्वंस्क्वस्सनडुहो दः // 2 / 1 / 68 // भ्रस्ध्वंसो क्वस्प्रत्ययान्तस्य च सकारान्तस्य अनडुहशब्दस्य च योऽन्तस्तस्य पदान्ते वर्तमानस्य दकारः स्यात् / उखाम्रद् / उखाम्रत् / पर्णध्वद् / पर्णध्वत् / विद्वद् / विद्वत्कुलम् / स्वनडुद् / स्वनडुत्कुलम् / विद्वत्सु / [विदुषो भावः] विद्वत्ता / क्वस्सिति द्विसकारपाठः किम् ? सान्तस्येव यथा स्यात् / इह मा भूत्। विद्वान् / हे विद्वन् // 68 // अ० पुते वर्तमान उखशब्दः पुंस्त्री / स्थाल्यां च नित्यं स्त्री इति वैयाकरणा मन्यन्ते / तत उखेन उखया वा संसते इति वाक्ये / 'घञ्युपसर्गस्य बहुलम्' (3 / 2 / 86) इत्यत्र बहुलग्रहणादुखस्य दीर्घः / पर्णानि ध्वंसते / _ 'विदक् ज्ञाने' विद् / वेत्तीति विद्वान् / 'वा वेत्तेः कसुः' (5 / 2 / 22) / विद्वस् इति शब्दः / शोभनोऽनड्वान् यस्मिन्कुले / / क्वस्सितीत्यादि-एतेन नपुंसकलिङ्गे सकारस्य दकारः स्यान्न पुंल्लिङ्गे // 68 / / ऋत्विग्दिश्दृश्स्पृश्म्रज्दधृपुष्णिहो गः // 2 / 1169 // - एषां पदान्ते वर्तमानानां गोऽन्तादेशः स्यात् / ऋत्विग् / ऋत्विक् / दिग् / दिक् / दृग् / दृक् / अन्यादृग् / अन्यादृक् / एवं यादृग् / यादृक् / तादृग् / तादृक् / घृतस्पृग् / घृतस्पृक् / मन्त्रस्पृग् / म्रग्। म्रक् / दधृग् / दधृक् / उष्णिग् / एवं दिग्भ्याम् दृग्भ्यामित्यादि // 69 // अ० ऋत्विक् / ऋतुं यजते / अथवा ऋतौ यजते ऋतवे यजते वा, यदि वा ऋतुप्रयोजनो वा यजते ऋत्विक् /